SearchBrowseAboutContactDonate
Page Preview
Page 14
Loading...
Download File
Download File
Page Text
________________ श्री दानादि शील. कुलक कुलक वत्तिः आदिनाथ ।॥१०॥ कथा यावनिपतति तावद्युगंधराचार्येण सा निवारिता । प्रोक्तं च-बाले! बालमरणं मा कुरु 1 तदा सा गुरुममीप- मागत्य दूरात्तबरण लेना । गुरुणा प्रतिकता सती परमश्राविका जाता । सुखेन गहे समागत्यानेकतपसि कुर्वाणा तिष्ठति. परं दौर्भाग्यत्वात्तां कोऽपि परिणेतुं नेच्छति । वैराग्येण जिनधर्ममाराध्य प्रांते तयाऽनशनं वृतम् । इतश्च स सामानिकसुरो ललितांगप्रति बक्ति,-अहो ललितांग ! त्वं तस्याः स्वकीयं रूपं दर्शय । तब रूपं दृष्ट्वा सा ते चितनं करिष्यति, तेनैव ध्यानेन मृत्वा च तव भार्या भविष्यति । ललितांगेन तथेति प्रतिपद्य निर्नामिकाय स्वं रूपं दर्दाशतं । सापि तं दृष्ट्वा तद्धयानवशान्मरणं प्राप्य तत्स्थाने स्वयंप्रभा नाम्नी देवी समुत्पन्ना । अथ तो देवदंपती विषयसुखानि भुंजानो तिष्ठतः । अनुक्रमेणायुःप्रांते ततश्च्यूतौ । इति पंचमो भवः ।।५।। इहव जंबूद्वीपे पूर्वमहाविदेहे पूरकलावतीविजये लोहार्गलनाम्नि पुरवरे सुवर्णजंघराजा, लक्ष्मीर्भार्या । तयोः पुत्रो वनजंघनामा स जातः । देवी स्वयंप्रभापि तत्रैव विजये पुंडरीकियां नगर्या वज्रसेन चक्रवर्ती, गुणबती भार्या, तयोः पत्री श्रीमती जाता । सर्वकलाभ्यासतः सा प्रवीणा जाता । एकदा स्वमंदिरगवाक्षस्था सती मनोरमाख्ये उद्याने सुस्थितनाम्नः साधोः केवलज्ञानसमुत्पत्तितो महोत्सवार्थं समागतानां देवानां वन्दं दृष्ट्वा जातिस्मरणं प्राप्य ललितांगस्वयंप्रभादवीत्वादि सर्व सस्मार । तदा तया चितितं, याबदहं तं प्राणनाथं न लभे तावन्मुखेन न वदिष्यामीति तया मूकत्वमाहतं । पित्रा अनेके उपायाः कृताः, परं सा न जल्पति । कार्यावसरे हस्तसंज्ञया तथा पट्टकेऽक्षराणि लिखित्वा ज्ञापयति । तदैकांते धातमात्रा पृष्टं है पत्रि ! त्वं कस्मान्न 11१०11
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy