SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ।।१५।। यवशात्ताभ्यां स्त्रीवेदत्वमुपार्जितं, बाहुसुबाहुभ्यां च वैयावृत्त्यादि गुणेन भोग्यफलं बाहुबलं च समुपार्जितं । षडपि चतुर्दशलक्षपूर्व चारित्रं प्रतिपालय प्रांते पादपोपगमसंस्थारकं कृत्वा सर्वायुश्चतुरशीतिलक्षमितं पालयित्वा सर्वार्थसिद्धविमाने गताः । तत्र त्रयस्त्रिंशत्सागरोपमायुरस्ति । श्रीआवश्यकसूत्रे एवं प्रोक्तमस्ति पुर्व श्रीवचनाभः समाधिना मृत्वा सर्वार्थसिद्धौ गतः । ततोऽनंतरं षट्पूर्वलक्षगमनानंतर ते पंचापि सर्वार्थसिद्धौ गता: । यदीत्थं नो चेत्तदा कथं संबंधो भवति ? तस्मात्सवार्थसिद्धिविमानात्पूर्वं श्रीवज्रनाभजीवश्च्युत्वा ऋपभत्वेनोत्पन्नः, तेऽपि च षट्पूर्णलक्षानंतरं च्युत्वा भगवत्पुत्रत्वेन भरतादयो जाताः । इति द्वादशमो भवः ||१२|| अथात्रावसर्पिण्यां जंबूद्वीपे भरतक्षेत्रे प्रथमारको व्यतिक्रांतः । द्वितीयारकोऽपि व्यतिक्रांतः । तृतीयारकस्य च प्रांते तत्र सप्त कुलकरा जाता:, विमलवाहनः १ चक्षुष्मान् २ यशस्वी ३ अभिचंद्रः ४ प्रसेनजित् ५ मरुदेवः ६ नाभयश्व ७ । नाभेर्भार्या मरुदेवी । तस्याः कुक्षौ वज्रनाभजीवः सर्वार्थसिद्धिविमानाच्च्युत्वाषाढमासस्य कृष्णचतुर्थ्यामुत्तराषाढानक्षत्रे चतुर्दशस्वप्नसूचितोऽवतीर्णः । तस्मिन् समये स्वना न संति । स्वत एव नाभिराजा स्वप्नविचारकृत् । पूर्णदिने चैत्रकृष्णाष्टमी निशायाञ्चार्थे उत्तराषाढा नक्षत्रे प्रभोजन्माभवत् । षट्पंचाशद्दिक्कुमारीभिश्चतुःषष्टिभिरिंदेश्व जन्ममहोत्सवकरणानंतरं प्रथमं ऋषभस्वप्नदर्शनत ऋषभ इति स्वामिनोऽभिधानं कृतं । तत्सार्धं या युगलिनी जाता तस्या नाम च सुमंगलेति दत्तं । पंचधातृदेवांगनाभिः परिवृतः स्वामी वृद्धि गतः । देवाश्चोत्तरकुरुक्षेत्रात्कल्पवृक्षफलान्यानीय तस्मै ददति, स्वामी च तानि भक्षयति क्षीरसमुद्रानीतानि ॥१५॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy