SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ ।। १७३।। चंडप्रद्योताय संदेशः प्रेषितो यन्मम भर्त्ता तु मृतः उदयनश्व लघुरस्ति, अतोऽधुना त्वमेव ममाधारोऽसि । परं प्रथमं त्वयोदय नगररक्षणकृते शत्रुभिरप्यजेयो धनधान्यपूर्णो वैशालीवप्रः कार्यः । मोहमूढेन चंडप्रद्योतेन तथैव कृतं । अथ तस्मिन् वत्रे स्थितया मृगावत्या चडप्रद्योतं प्रति संदेशः प्रपितो- रे मूर्ख ! मया त्वेषो वप्रो मम शीलनगररक्षणकृते त्वत्पार्श्वे कारापितोऽस्ति । तत् श्रुत्वा क्रुद्धप्रद्यतस्तत्रागत्य वैशालीग्रहणकृत बहुप्रयत्नोऽपि निष्फलत्वं प्राप । इतो भूगावत्या चितितं यदि श्रीवीरप्रभुरत्न समागच्छेत्तदाहं दीक्षिता भवामि । इत श्रीवीरप्रभुरपि लाभं विज्ञाय तत्र समवसृतस्तस्यातिशयप्रभावतश्च चंडप्रद्योतस्य मनसि वेरमुपशमितं । ततो मृगावत्या श्रीवरप्रभुपार्श्वे दीक्षा ग्रहीता । ततः प्रभुदेशनां श्रुत्वा प्रतिबुद्धखंड प्रद्योतो वंशाल्यामुदयनस्य राज्याभिषेकं कृत्वा स्वस्थाने गतः । मृगावत्या महासत्या चंदनबालासमीपे एकादशांगानि पठितानि । अर्थकदा कोशांच्या श्रीवीरप्रभुवंदनार्थं सूर्यचन्द्रो निजमूलविमानयुतौ समागती | संध्याकाले सर्वसाध्ध्यः स्वस्थाने गताः । परं मृगावती प्रमादवशेन सूर्यविमानतेजसा रात्रापि दिवस मन्यमाना तथैव समवसरणे स्थिता । इतः सूर्यचन्द्री स्वस्थाने गती, तदा रात्रि ज्ञात्वा शक्तिभीता मृगावती नगरमध्ये चंदनबालासमीपे उपाश्रये प्राप्ता । तदा चंदनवालयोक्तं भो महानुभावे ! एष साध्व्या आचारो नास्ति । तत् श्रुत्वा निजप्रमाददोषं विज्ञाय मृगावती मुहुर्मुहुर्निजापराधं क्षामयामास । शुभध्यानतश्च तस्याः केवलज्ञानं समुत्पन्नं । ज्ञानेन तथा तमस्यपि सर्प आगच्छन् दृष्टस्तदा तथा चंदनवालाय कथितं सर्पः समायाति । चंदनयोक्तं कथं स्वयंतद् ।। १७३ ।।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy