SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ श्री दानादि कुलकवृति: ।।१७२ ।। अथ तस्य भक्त्या संतुष्टो यक्षः प्रत्यक्षीभूय तं वरार्थं प्रार्थयामास । चित्रकारेणोक्त एवं जीवहसां त्यज, मह्यं च तां कलां देहि । यथाहं कस्यापि प्राणिनोगांशमात्र विलोकनेनापि तस्य संपूर्णरूपालेखनशक्तियुक्तां भवामि । | यक्षेण तदुक्तं सर्वं कृतं । अथ स चित्रकारः क्रमेण कौशांव्यां समागत्य राजादेशती नृप्रासादं चित्रवितुमारब्धवान् । दैवयोगात्तत्रापवर्गातिःस्थाया मृगावत्या दक्षिणकरांगुष्टस्तेन दृष्टस्तदा तेन कुतूहलतो मृगावत्याः संपूर्णरूपं मित्तावालेखितं । अकस्माञ्च तस्मिश्रिये राज्ञ्या गुह्यस्थाने मषीविदुः पतितस्तदा तेन स विदुद्विवारं दूरीकृतस्तथापि तृतीयवारमपि तत्रैवमपीबिंदु ः पतितस्तदा तेन ज्ञातं यत्तत्र स्थाने नूनं तिलांकमस्ति । ततस्तेन स विदुस्तत्रैव रक्षितः । अकदा राजा निजप्रासादचित्राणि त्रिलोकयितुं समागतस्तदा राज्ञ्याचित्रं गुह्यस्थानगततिलाकितं विलोक्य चित्रकार प्रति कुपितः । ततो राजा चित्रकारमाहूय तत्स्वरुपमपृच्छत् । तदान्यैरपि सर्वचित्रकारैरुक्तं स्वामिन्नस्व देवन तत्संबंचिवरो दत्तोऽस्ति तदा राजा तत्परीक्षार्थमेकायाः कुजदास्या अंगुष्टस्तस्मै दर्शितस्तदा तेन चित्रकारेण तथाभूतं तस्या स्वरूपमालेखितं. तथापि क्रुद्धेन राज्ञा तस्य चित्रकारस्य चत्वारो दक्षिणांगुल्यविन्नाः । ततोऽसौ दून: साकेतपुरे समागत्य यअस्य स्तुतिपरो वभूव तदा यक्षेण तस्यवामकरे चित्रकरणवरो दत्तः । पश्वात्तेन मृगावत्याः सविशेषं स्वरूपमालेस्य चंडप्रद्योताय दर्शितं । तद् दृष्ट्वा व्यामोहितेन राज्ञा शतानीकंप्रति स्वप्रधानं मुक्त्रां मृगावती मागिता, पर शतानीकेन स निर्भर्त्स्य निष्कासितः तदा चंडप्रद्योतो निजसंन्यमादाय कौशांबी प्रति चलितः । इतोऽत्र शतानोकोऽतिसाररोगेण मृतस्तदा मृगावत्या निजशीलरक्षणकृते निजबुद्धेरुपयोगः कृतः । तथा शील कुलकम् मृगावती कथा ।।१७२।।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy