________________
।।१७१।।
भो वत्स ! त्वयेयं कला क्वाभ्यस्ता ? कुमारेणोक्तं- हे तात! मयैकदा तत्र चंदनवनमध्ये व्याचव्यापाञ्चमानः सर्पेको दृष्टः । कृपाप्रादुर्भावाद्रतःकरणेन च मया व्याधं प्रति मम मातुः कंकणं समर्प्य तस्मै सर्पायाभयदानं दत्तं । इतोऽसौ सर्पस्तिरोभूय देवीभूतो ममाग्रे समागत्योवाच- हे उदयन ! अहं तब पूर्वभवमित्रमस्ति, ते दयार्द्रभावतश्व तुष्टोऽस्मीत्युक्त्वा स मामेतां वीणां वादनवरदानपूर्वकं दत्वा तिरोऽभूत् ।
अर्थकदा हृष्टेन राज्ञेोदयनाय युवराजपदवी दत्ता । इतः कौशांबीनगरीवास्तव्यः सुरप्रियनामा कश्चिचित्र कारकः साकेतपुरे गतः । अथ तत्र नगर्यामेका यक्षमूर्तिरक्ति, तां मूर्ति राजाज्ञया प्रतिवर्षमेकं कश्चित्रकारवित्रयति । स च चित्रकारस्तस्मिन्नेत्र दिने मृत्युमासादयति । यदा च न चित्रयति सा सर्वलोकानां मरणसंकटमायाति । तद् दृष्ट्वा राज्ञा सर्वचित्रकाराणां क्रमो वद्धः ।
अथ यस्य चित्रकारस्य गृहे पूर्वोक्तः कौशांबीचारतयचित्रकार: प्राघूर्णक: समायातस्तस्यैव चित्रकारस्य यक्षमूत्तिचित्रकृते तदा वारकः समायातस्ततोऽसौ विलापं वतुं सः । प्राघूर्णकेन तत्कारणं पृष्टोऽसौ सकलवृत्तांतं कथयामास । तदा प्राघूर्णनोक्तं त्वं मा भयं कुरु । अद्य तव स्थानेऽहं यक्षकार्य करिष्यामीत्युक्त्वा तेन चितितं नूनमविधिकृतचित्रतोऽयं यक्षचित्रकार मारयतीति विचार्य, स स्नानपूर्वक पवित्रवस्त्राणि परिधाय मुखेऽष्टपुटवस्त्रं च बध्ध्वा चित्ररंगद्रव्याणि च पवित्रभाजने स्थापयित्वा लेखिनी चापि पवित्रीकृत्य भक्तिपूर्वकं यक्षमूर्ति चित्रयामास । ततो निजकरद्वयं योजयित्वा स्तुति च कृत्वा तेन विज्ञप्तं यक्षराज ! मदपराधं क्षमस्व ।
।।१७१ ।।