SearchBrowseAboutContactDonate
Page Preview
Page 174
Loading...
Download File
Download File
Page Text
________________ गोल कुलकम् वृत्ति : मृगावती कथा तां विलोक्य समुपलक्ष्य च गतधर्येण राज्ञा गो-हे प्रिये ! बिरहालवा गां बिजनेत्रवीक्षणपीयूषधाराभिः दानादि सिंचय । मगावत्यपि तमुपलक्ष्य नयनांबुदनिर्गतहर्षाश्रुजलधाराभिस्तस्य विरहाग्निमुपशामयंती चरणक्षालनं कुर्वतीव कुलक मौनमालंब्य स्थिता । इन उदयनेन मातु: समीपमागत्योक्तं-हे मातः ! कोऽयं परमस्नेहवान जनी यो मां पुत्र इत्युक्त्वाह्वयति । मात्रोक्तं-हे पुत्र ! तव सुभाग्याकृष्टोऽयं तब जनकः शतानीको राजा तव मिलनायाग समा गतोऽस्ति । तत् श्रुत्वाति नमोदं प्राप्त उदयनोऽपि तात तातेति जल्लन् पितुचरणे पतितः। शतानीकोपि तमुन्थाप्य ११७०।। स्वोत्संगे स्थापयित्या चंद्रमसं संप्राप्योदधिरिवोल्लासभावं प्राप्तः । इतस्तापसा एनं वृत्तांतं ब्रह्मभूतिकुलपतये निवेदयामासुः । तदा ब्रह्मभूतिरपि तत्रागत्य निजैक दक्षिणकरमध्वीकृत्य कथयामास-भो राजन् ! त्वं दिष्टया बर्द्धसे ? साष्टांगप्रणाम विधाय राज्ञोक्त भो महात्मन् भवत्प्रसादादपारससारसागरे पतितं प्रियारत्नं मयाद्य संप्राप्त । ततः कुलपतिनोक्तं-भो इयं मृगावती महासती गंगोरुजलनिर्मल शीला त्वया ज्ञातव्या । इतो राजा तत्र कियत्कालावधि o स्थित्वा प्रियापुत्रसहितो निजनगरे समागतः । हृष्टनगरलोकस्तस्य प्रवेशमहोत्सवः कृतः । शतानीको राजा निजप्रासादे समागत्य मृगावत्या सह केलिकौतुकंश्चिरविरहनं दुःखं दूरीकारयामास । अर्थकदा पुत्रयुतसभास्थितस्य नृपस्य पार्श्वे कोऽपि वीणावादक: समायातः, कथितं च तेन नास्ति स * कोऽपि जनो जगति यो मया सह वीणावादं कुर्यात् । तत् श्रुत्वोदयनकुमारेण निजवीणा तथा वादिता यथा सभाजनयुतः स वीणावादकोऽपि महदाश्चर्य प्रातः, हारितश्च कुमारपादयोः पतितस्ततो राज्ञा पृष्टं, ॥१७०।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy