________________
11१६९।।
सकुमारो दृष्ट: । राज्ञा तत्समीपे गत्वा प्रणामं च कृत्वा पृष्ट-भो महात्मन् ! कस्यायं कूमारोस्ति ? तत् श्रत्वा तायसेनोक्तं-शण तवृत्तांतं । अयं ब्रह्मभूतितापसस्याश्रमोऽस्ति । तस्य शिष्यो विश्वभतिनामास्ति । स चंकदा चंदनवने समागतस्तत्र च तेन कोसंभरागाभिषिक्तदेहा महिलैका मूर्षिता दृष्टा । दयया वारिणा सिंचयित्वा च सज्जीकृता । सदा सचैतन्प्रया तथा प्रोक्तं-'हे कौशांबीपते ! शरणं भव' ततो विश्वभूतिना सा भगिनीति कृत्वालापिता । स्वकीयं मगावतीति नाम कथयित्वा सकलमपि निजवृत्तात निवेदयामास । ततस्तेन सा ब्रह्मभूतितापससमीपे समानीता । तेनापि च सा पुत्रीति कृत्वा मानिता । कियदिवसानंतरं गर्भवत्या तया शुभसमये पुत्रंकः प्रमूतस्तस्य जन्मोत्सवानंतरं ब्रह्मभूतिना चितितं बालस्यास्य कि नाम दीयते ? इतो 'बालस्यास्य | उदयन इति नाम देयं' एवंविधा गगनवाणी जाता । तदा हुप्टेन कुलपतिना तस्य 'उदयन' इति नाम दत्तं ।। क्रमेण बालोऽसौ सकलकलासंपूर्णो वृद्धि प्राप्तः सन् महाबलवान योद्धा जातो हस्तिना गहापि युद्धं करोति । कस्यापि तिरस्कार न राहते, सोऽयं दुर्धर उदयनकुमारोऽस्ति, अहं च संष विश्वभतितापसोऽस्मि । अस्य बालस्य माता मृगावत्यप्यधुनात्र समायास्यति । अथवममतरसधारातल्यानि तस्य वचनानि श्रुत्वा शतानीको राजात्यंत प्रमुदितो हस्ताक्ग्रे कृत्वा तं तापसकुमार प्रति कथयामास-हे पत्र ! त्वमत्र ममोत्संगे समागच्छ । तत् श्रुत्वाअरिचितेनोदयनेन कथितं बिना शतानीकं मां एत्र इतिकथनपरस्य पाश्वेऽप्यहं न समागच्छामि । इतस्तत्र तापसीवंदपरिवता तारकगणवेष्टितशशिलेखेव परिहितवल्कलवस्खा मगावती ब्रह्मभूतिकुलपतिप्रणामाय समागता ।
१६९।।