________________
श्री दानादि
कुलक
वृत्तिः
१५८।।
च चलणया सहेब तेन पाणिग्रहणं । पचात्सज्येष्ठया वैराग्येण श्रीवीरप्रसमीपे दीक्षा गृहोता |
अथ चिल्लाया: कोणिकहल्ल विहल्लाख्यारूयस्तनयाः संजाताः । श्रीवीरेण ता सप्तापि भगिन्यः सतीत्वेन व्याख्याताः । श्रेणिकोऽपि आयियसम्यक्त्वधारी वर्तते । अर्थको द्विजजीवो मुत्वा दर्दुरो जातः । स भगवद्वंद नार्थमागच्छन् । पथि श्रेणिकाश्वखुरेण मृतः श्रीवीरध्यानतो देवश्व जातः ।
अथैकदा देवसभायां सौधर्मेद्रेण श्रेणिक सम्यक्त्व प्रशंसा कृता । तत्राद्धानेन तेन कुष्टिरूपं कृत्वा प्रभुपार्श्वे समागत्य प्रभोः स्पर्शः कृतः । मत्स्यजालधारिसारूपं कृतं गर्भिणीसाध्वीरूपं च कृतं । एवं तेन बहुधा श्रेणिकसम्यक्त्वपरीक्षा कृता, परं तं निश्चलं विज्ञाय संतुष्टेन तेन श्रेणिकायैको हारों गोलकद्वयं च दत्तं । श्रेणिकेन स द्वारश्चेला दत्तो गोलकद्वयं च नंदाराश्यं समर्पितं । क्रुद्धया नंदया तद्गोलकद्वयं भित्तावास्फालितं । तत्क्षणमेवे कस्मात्कुण्डलद्वयं द्वितीयमध्याच क्षौमयुगलं निर्गतं । तद् दृष्ट्वा नंदा हृष्टा सती तत्कुण्डलद्वयेन चीवरद्वयेन च स्वशरीरं भूषयति, चिल्लणा च हारं धारयनि ।
अर्थदाभयकुमारेण श्रेणिकं प्रतिबोध्य नंदामातृसहितेन श्रीवीरसमीपे दीक्षा गृहीता, कुण्डलयुगलं चीवरयुगलं च चिणापुत्र विल्लाभ्यां समर्पिते । एकदा श्रेणिकेन कोणिकाय राज्यं दातुं चितितं सेचाणकहस्तिहारी लाभ्यां दत्त । तद् दृष्ट्या क्रुद्धेन कोशिकेन कालादिदशकुमारैः सहालोच्य श्रेणिकः काष्ठपंजरे निक्षिप्तः, स्वयं च राज्ये स्थितः । श्रेणिकं सदा कशाप्रहारैस्ताडयति । चिलणा महादुःखं दधाति ।
शोल कुन्दकम्
चेलणा
कथा
११५८