________________
दानाद
शील कुलकम्
वृत्तिः
सुदर्शन कथा
11१५४।।
यत्सुदर्शनोऽष्टमीप्रमुखपर्वणि पौषधं गृहीत्वा कस्मिश्चिच्छुन्यगृहे कायोत्सर्गस्थस्तिष्ठति । अथ कार्तिकणिमायां | कौमुदोमहोत्वे समागते सति राजादिनगरलोका वनमध्ये गताः । रात्री तु निजदेहापाटवमिषेण निजप्रासादे एव स्थिता । अथ धात्री प्रथमत एव निर्मितां सुदर्शनसदृशी काष्ठमयी प्रतिमां सुखासने संस्थाप्य सम्बोभिः परिवता यमप्रतिमोत्सवमिषं कृर्वाणा राजदुर्गप्रतोल्या बहिनिर्गता । प्रतालोरक्षकैश्च स काष्ठमयी यक्षप्रतिमा दृष्टा । पहिरागत्य तां प्रतिमा गुमापवरके संस्थाप्य शून्य गहे कायोत्सर्गस्थं सुदर्शन मार्जारी मूषक मिवोन्पाटय सा तस्मिन् सुखासने स्थापयामास । पुनस्तेनैव मार्गेण राजदुर्गप्रतोल्यां समागता, सदिश्वासरारक्षकरनिवारिता सुदर्शनयुत सुखासनं राज्ञीसमीपे समानयत् । राजी तं दृष्ट्या हृष्टा सती विविधहावभावान् प्रदर्शयंती कटाक्षविक्षेपपूर्वक तस्मै भोगप्रार्थनां चकार । मुदशनस्तु मेरिव तस्या विविधवचनप्रपंच चंडवातैराध एव कायोत्सर्गध्याने स्थितः । तदा तया निर्लज्जया स्वकीयबस्वाणि परित्यज्यानेकविधानुकूलोपसर्गास्तस्य कृतास्तथापि तं निचलं ज्ञात्वा तया नानाविधभयवचनानि कथितानि । परं सुदर्शनस्तु चतुःप्रहरान्यावत्कायोत्सर्गे एव तस्थौ । अथ प्रातःकाले यदा नपागमनावसरो जातस्तदा नि:कृपया तया निजदेहं स्वनविदार्य वस्त्राभूषणानि च प्रोटयित्वा निजदुराचरणोदघोषणं कुर्वतीव पुत्कारं चकार । तत्क्षणमेव प्राहरिकंस्तत्रागत्य कायोत्सर्गस्थः सुदर्शनो दृष्टो ज्ञापित्तश्च ते पाय । नपोऽपि तत्रागत्य सुदर्शनं दृष्ट्वा चितितवान् यदमतादपि विषप्रकटीभवनं न संभवतीति विचार्य राज्ञा सुदर्शनस्तद्वत्तांतं पृष्टः । सुदर्शनेन राज्ञीदयया किमपि न जल्पितं । तदा राज्ञानुमित नूनमेष नीतिपथभ्रष्टो विज्ञायते।
।।१५४।