SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ श्री दानादि कलक वृत्तिः ।। १५० ।। वीतरागो निस्पृहो भवभीतः संसारसागरतरणकबद्ध कक्षा विषयपराङ्मुखी बनते । यतः श्रीस्वाम्यपि विहरन् पाटलीपुञ्जनगरे समागतस्तदा स घनश्रेष्ठी शतकोटीदीनारद्रव्यविविधालंकारवत्वादिभिर्युतां तां रुक्मिणी पुरस्कृत्य श्री वज्रस्वामिसमीपे समागत्य कथयामास हे स्वामिन्नियं मे पुत्री भवद्गुणगणाकृष्टहृदया भवंतमेव परिणयितुं गृहीताभिग्रहा वर्तते, तदेतद्द्रव्ययुतां तां स्वीकुरु । गुरुणोक्तं-हे महानुभाव ! धनकन्ययोर्लोहशिलानिर्मितननिभयोः संसारसागरतरणशैकाभिलायन्य में प्रयोजनं नास्ति । तत् श्रुत्वा विषण्णया रुक्मिण्वोक्तं हे स्वामिन् ! मिया कृता प्रतिज्ञा कथं पूर्वने ? गुरुणोक्तं-यदि तव ममोपर्येव रागो वर्त्तते तर्हि त्वमपि मवाचीर्णमेव tarangसर । किमेभिरसार: क्षणविश्वसिविषयजन्यसौख्यैः ? कि च प्रांते रागाद्यंत रंगारिनिकरै रप्यगम्य यां मोचनगर्यां गत्वा तत्रावां मिलित्वा निःशंक निर्भयं शाश्वतानंताभंगुरानंदसंदोहयुतं सुखास्वाद लभिप्या । कृते चैवं तव प्रतिज्ञापि पारं प्रयास्यति । इति श्रुत्वा प्रतिबुद्धया तया वैराग्यं प्राप्य तत्सकलद्रव्यव्यययुतमहोत्सवपूर्व क दीक्षा गृहोता । अथेतो द्वादशवार्षिको दुष्कालः समागतस्तदा धान्याद्यभाक्तः सकलसंघो दुःखभाग्बभूव । कृपालुः श्रीवज्रस्वामी निजविद्या प्रभावतः सकलसंघ काष्ठपट्टे समारोप्याकाशमार्गेण सुभिक्षयुतायां नगर्यां समागतः । तत्र पर्युषणापर्वणि बौद्धमतानुयायिराज्ञा द्वेषभावतो जिनमंदिरे पुष्प निषेधः कृतस्तदा संघाज्ञया श्रीवत्रस्वामी जिनशासनप्रभावनार्थं निजविद्याबलेन नंदनवनाद्विनिलक्ष दिव्यपुष्पाण्यानयत् । तद् दृष्ट्वा प्रतिबुद्धेन राज्ञा जैनधर्मोगीकृतः । अथ श्रीवज्ज्रस्वामिनो निजशिष्यं वज्रसेनं गणं समयकथयन् यदा त्वं सोपारकनगरे लक्षमूत्ययाकती भिक्षा लभसे म शील कुलकम् सुदर्शन कथा ।। १५० ।।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy