________________
जापनार्थ सर्वसाधुभ्यः कथितमहं स्तोककदिनावध्यासन्नग्रामे गमिष्यामि । साधुभिरुक्त-हे स्वामिन् ! तहि अस्माकं वाचनाः क; प्रदास्यति ? गुरुभिरुक्तमयं वचस्वामी युष्मभ्यं वाचना: प्रदास्यति । साधुभिस्तदाकराधिगताश्वर्यरपि गुरुवचनं प्रमाण मितिमन्यमानस्तूष्णीं स्थितं । प्रभाते गुरुविहारानंतरं श्रीववस्वामिना सर्वसाधभ्यस्तथा
वाचना दत्ता यथा मासकपाठोऽपि दिवसंकमध्ये साश्चर्य हृद्गोचरीकृतः । कालांतरे गुरवस्तत्र समागतास्तैः ॥१४९॥
पृष्टाश्च शिष्या बच्चस्वाम्यधिगतवाचनाप्रशंसा चक्रुः । ततो गुरुभिः श्रीवजस्वामिने वाचनाचार्यपदं दसम् ।।
अर्थकदा परिवारयुता गुरवोऽवतीं प्रति प्रस्थिताः । मार्गे श्रीवज्रस्वामिपूर्वभवमित्रतिर्यग्जभकदेवः 15 श्रावकरूपं कृत्वाऽहारकृते श्रीवजस्वामिनो निमंत्रिताः । परं तैर्देशकालानुमानादिभिस्तं देवपिडं विज्ञाय न |
गृहीतस्तदा तुटैस्तैस्तस्मै वैब्रियलब्ध्याकाशगामिनीविद्ये प्रदत्ते । क्रमेण गुरुवचनतस्तेन श्रीभद्रगुप्ताचार्यपादिदशपूर्वाणि पठितानि । तदा तिर्यग्जूभकदेवकृतमहोत्सवपूर्वकं गुरुभिस्तस्याचार्यपदं दत्तं । क्रमेण श्रीसिंहगिरिसूरीणां स्वर्गगमनानंतरं वचस्वामी निजचरणन्यास पीठं पावयन्न नेकमध्यजीवकल्पपादपानिजोपदेशामृतधाराभिः सिंचयन् विजहार । इतः पाटलीपुत्रनगरे धनश्रेष्ठिनो धारिणीभार्याकुक्ष्युद्भवारूप निजितनिर्जरांगना रुक्मिण्यभि- धाना पुत्री वर्तते । सा निजगृहनिकटस्थोपाश्रये साध्वीम्यः शास्त्राध्ययनं करोति ।
अर्थकदा साध्वीमुखात् श्रीववस्वामिनो रूपादिगणवर्णनं निशम्य मुग्धतया तयैवं प्रतिज्ञा कृता यदस्मिन् भवे मम भर्ता श्रीवचस्वाम्येब भवन् । तत्पित्रा तत्प्रतिज्ञां विज्ञाय तस्य कथित-हे मुग्धे ! स वजस्वामी तु
१४९।।