________________
वृत्तिः
।
श्री X| स श्रीववस्वामी जयतु ॥१३॥ श्री वज्रस्वामिकथा चेत्थं
शील दानादिA मालबदेशे तुंबवननामा ग्रामोऽस्ति । तत्रातिधनवान् धर्मवांश्च धनगिरिनामा व्यवहारी वसति । स]
कुलकम् कुलक
वैगम्यवासितमानसोऽपि पितृभ्यां महताग्रहेण सुनंदाभिधकन्यया सह परिणायितः । अथो धनगिरिणा चितितं पुत्रोस्पत्त्यनेनरमहं दीक्षा गहिये । कालांतरे सुनंदायाः कुक्षी कोऽपि देवजीवो गर्भवनोत्पन्नस्तदा धनगिरिणा वैराग्येण
वचस्वामि मोहोन्मादं परिहत्य श्रीसिंह गिरिगुरुसमीपे दीक्षा गृहीता । धनगिरिमुनिनिजमातुलार्यसमितमुनिना सह शाखा. ११४६1
कथा ध्ययनं करोति ।
अथ मुनंदाया संपूर्णसमये तेजोऽभिराममेकं पुत्ररत्न प्रसूतं । तस्य जन्मोत्सवे गृहे मिलिता नार्यः परस्पर कथयति यद्यस्य बालस्य पिता दीक्षा नाग्रहिष्यत्तहि बालस्यास्य जन्मोत्सवं स महताडवरेणाकरित्यत् । तत् श्रुत्वा
तस्य बालस्य जातिस्मरणं संपन्नं 1 ततस्तेन दीक्षाग्रहणेच्छुना मातुरुद्वेगाय रात्रिदिवा रुदनं कर्तुं समारब्धं । एवं P रुदतस्तस्य षण्मासा व्यतिक्रांताः । उद्विग्नया मात्रा प्रातिवेधिमकादिकथनतो चितितं यदस्य पिला चेदन समा| गच्छेत्तहि रुदनशीलो बालोऽयं तस्मै एव मया समर्पणीयः । इतो धनगिर्यादिपरिवारयुताः श्रीसिंहगिरयस्तत्र समागताः । धनगिर्यार्यसमितावुभावपि गुरुमापृच्छयाहारार्थ चलितौ । तदा श्रुतोपयोगतो गुरुणोक्तमद्य युवाभ्यां | सचित्ताचित्तं यदपि मिलेतग्राह्यं । तथेति कृत्वा तो विहरमाणौ सुनंदागृहे समागतौ । तौ समालोक्योद्विग्नया तया प्रोक्तं रुदनशीलोऽयं भवदंगजो भवतंव ग्राह्यः । अस्य दिवारात्रि रुदतोऽगजस्योद्विग्नया मम न किचिदपि प्रयो
11१४६॥