________________
।।१४७॥
जनमस्ति । ताभ्यामपि गुरुवचनं संस्मृत्य सर्वसाक्षियुत्तं तं वालं झोलिकायां निक्षिप्याग्रे चलितम् ।
अथ स वालोऽपि रुदनतो विरराम ! क्रमेण न तावुपाश्रये समागतौ । झोलिका भूरिभारयुतां दृष्ट्वा गुरुणा तस्य वज्र इति नाम विधाय साध्वीनामुपाश्रये रक्षितस्ताभिश्च शय्यातरश्राविकार्य पोषणार्थ समर्पितः । तत्रोपाश्रये पालनके सुनो बचो महासतीनां पठनश्रवणेनैकादशांगानि सूत्रार्थतः पठितवान् । गुरवस्त्वन्यत्र विजहः । बज्रोऽयं श्राविकागहे क्रमेणाष्टवार्षिको जातः, तस्य सरससुकोमलवचनैः श्रीसंघोऽप्यत्यंत प्रमोदं प्राप्तः ।
अथ सुनंदा स्वकीयांगजमेवंविधं निपुणं मनोहररूपवाग्विलासादियुतं दृष्ट्वा दुर्ललितेव मोहदशां प्राप्ता । श्राविकार्य मुहर्मुहः कथयामास, ममांगजोऽयमतो मां समर्पय । श्राविकयोक्तमेतद्गुरुन्यासोऽस्ति कथमहं तुभ्यं र समर्पयामीत्युक्ता निराशा शोचनीया सुनंदा मोह्वर्शन सर्वदा तद्गृहे समागत्यैव वजं दूरादेव विलोक्य हृदि । दूना पुननिजगृहे समायाति । चितयति च यदि धनगिरित्रागमिष्यति तर्हि ममनं पुत्रं तस्य कथयित्वा गृहिप्यामीति विचित्य सा घनाघनमिव तदागमनं प्रतीक्षमाणा स्थिता । इतस्तदाशागणाकृष्टा इव धनगिर्यादियुता: श्रीसिंहगिरिसूरयस्ता समागताः । हृष्टा सनंदा दूतमपाश्रये समागत्य घनगिरितः पत्रं मार्गयामास । धनमिरिणोक्त--हे महानुभावे ! तदेव त्वया बहजनसाक्षिक सोस्माकं समपितोऽस्ति अतस्ते पुनर्नेव मिलिष्यति । परस्पर विवादो जातः । प्रांते राज्ञोऽग्रे सर्वेगताः । राज्ञोक्त-यस्याहतो बालो गच्छेत्तस्य समर्पणीयः । द्वितीयदिने राजसभा मिलिता तदा सनंदा विविधप्रकारसुखभक्षिकाववालंकारकुतूहलकारिवस्तूनि गृहीत्वा
॥१४७॥