________________
।। १४५॥
स्थूलभद्राय पाठितानि उक्तं च स्वयापि शिष्येम्यो दशपूर्वाण्येव देयानि न त्वपराणि ।
अर्थकदा स्थूलभद्रमुनिविहरनेकस्मिन्नगरे पूर्वमित्रगृहे समागतः । मित्रं तु विदेणगतभूत । तस्य भार्यया सन्मुखमागत्य मुनेः स्वागतं कृतं । स्थूलभद्रेण तां विषण्णां विज्ञाय पृष्टं मम सुहृत्सोमः क्वास्ति ? तयोक्त है भगवन् ! स तु धनार्जनकृते देशांतरेति । तस्य गृहमध्ये स्तंभाधो भूतांतद्रव्यसमूह ज्ञानोपयोगतो दृष्ट्वा सम्ये तत्स्तंभसन्मुखं मुहुर्मुहु निजहस्तं विधायोपदेशो दत्तः । ततो महामुनिस्थूलभद्रोऽन्यत्र विजहार । क्रियद्दिवसानंतर स सोमोऽपि स्वांतरायकर्मयोगतो धनार्जनं विनैव विषण्णः सन् गृहे समागतः । भार्यया च स्थूलभद्रागमनवृत्तांतः कथितः । हृष्टेन सोमेन क्तं तेन प्रभुणा कि कथितं ? तयोक्तंहे स्वामिन्! तेन भवन्नाम गृहीन्वोक्तं स वय गतोऽस्ति ? मयोक्त-हे भगवन् ! धनार्जनकृते देशांतरं गतोऽस्ति । ततस्तेन महात्मना मुहुर्मुहुरेतत्स्तंभं प्रति हस्तं प्रसार्य मह्यमुपदेशो दत्तः । इति श्रुत्वा सोमेन चितियं नूनं तस्य महात्मन: संज्ञा निरर्थका नैव भवेदिति विचार्य तेन तस्य रतंभस्याधो भूमिः खनिता । तत्कालमेव ततः सपादलक्षमितं द्रव्यं निर्गतं । अथ श्रीस्थूलभद्रस्वामी प्रांतेऽनशनं विधाय स्वर्गे गतः । इति श्रीक्षीलकुलके स्थूल
भद्रकथा ।।
मणहरतारुणभरे, पत्थितोषि तरुणिनिअरेण । सुरगिरिनिचलचित्तो, सो वयरमहारिसी जय ||१३||
व्याख्या- मनोहरयो वनभरैः स्त्रीणां वृंदः प्रार्थितोऽपि यः श्रीवज्रस्वामी सुरगिरिव मेरुवन्निश्चलचित्तोऽभूत्,
।। १४५ ।।