________________
शील
दानादि
कुलकवृत्तिः
स्थलभद्र कथा
11१४२1
६ चाहं तल इवेषत्फुत्कारमात्रतोऽपि विशरारुतो गभ्यमानः ? अथ तं मुनि प्रतिबुद्धं विज्ञाय कोणापि तं
प्रणम्योवाच-हे मने ! भवत्प्रतिबोधार्थ मया यत्किचित्त्वां प्रति विरुद्धाचरणमाचरितं तन्मयि कपापरेण त्वया क्षेतव्यं । अथ स्वात्मानं निदन् द्रुतं गुरुसमीपे समागत्य सर्वोदंतं निवेद्य निजागराधं च क्षमयित्वा म पुनरालोचनापूर्वकं शुचारित्रं उग्राह ।
अर्थकथा तुष्टेन नंदराज्ञा सा कोशा कस्मैचिद्रथिकाय समपिता । पर मंप्रति परपुरुषभोगाभिलाष रगड़मुखा कोशा त प्रति मर्वदा स्थूलभद्रगुणगणान् वर्णयामास । तदमहमानेन तेन थिकेन तस्य निजकलाकलापप्रदर्शनार्थ गवाक्षस्थेन वाणानुबाणानुसंधान कलयारगुच्छ रामाकृष्य वेश्यायै समपितं । कोशवापि सपंपभृतः थालं पुष्पराच्छाद्य तदंतर्गतमुत्युपरि नत्यं विधाय स्वविज्ञानमपि तस्मै दर्शितं । तद् दृष्टया तृप्टेन रथिनोक्तं-हे सुभगे ! त्वया दुष्करकार्य कृतं । वेश्ययोक्तं हे रथिक ! त्वया मया च कृते वे अपि कार्ये दुष्करे , कि तु स्थूलभद्रेण यत्कार्य कृतमस्ति तदुष्करेभ्योऽपि दुष्करं ज्ञेयमित्युक्त्वा तया सर्वोऽपि स्थूलभद्रोदंतस्तस्मै निवेदितस्ततः प्रतिबुद्धेन तेन दीक्षा ग्रहीता । इतोऽथ द्वादशवार्षिको दुप्काल: पतित', साधुसाध्वीभिश्च महाकाप्टेन स निर्वाहितः । तदापत्ती पटनपाठनाभावतः सिद्धांता: साधूनां मुखपाठतो विस्मृताः, दुप्कालानंतरं पाटलीपुत्रं सर्वसंधो मिलितः । तदा यो यः सिद्धांतभागो यस्य यस्य मुखपाठे मिलितस्तत्सर्वमेकीकृत्य महाप्रयासेनकादशांगानि पूर्णीकृतानि ।
अथ तस्मिन् काले चतुर्दशपूर्ववेत्ता श्रीभद्रबाहुस्वामी नेपालदेशे बिहुतवान् । तस्याकारणार्थ पाटलीपुत्र.
2||१४२॥