SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ मिलितसंघेन पूर्वोद्धारकृते तत्र ही मुनी प्रषितौ । मुनिभ्यां तत्र गत्वा श्रीभद्रबाहुस्वामिने संघसंदेशो ज्ञापितः । तेनोक्तं संप्रति मया महाप्राणध्यानं समारन्धमस्त्यतस्तत्र मयाऽगंतुं न शक्यते । तदा तौ साधु पश्चात् पाटलीपुत्रे समागत्य तत्संदेशं श्रीसंघाय निवेदयांचऋतु: । संधन पुन साधू तत्र प्रेष्य तस्मै संदेशितं च यः कश्चि संघाज्ञां न मन्यते तस्य को दंडा देव इति । तद्वचनतात्पर्य विचित्य श्रीभद्रबाहना कथितं श्रीसंघो मह्यं कृपा।१४३111 परो भूत्वात्र बुद्धि निधीन साधून प्रेषयतु । तेभ्योऽहं पूर्वबाचनां दास्यामि, येन श्रीसंघ कार्यसफलताविधानपूर्वक ममापि ध्यानांतरायो न भवेत् । श्रीसंघेनापि तत्स्वीकृत्य स्थलभद्राद्याः पंचशतबुद्धिनिधानमुनयन र प्रेषिताः । कियता कालेनैक स्थलभद्रमहात्मानं विनान्ये सऽपि साधवः सिद्धांताध्ययनोतिनमानसाः संतः पश्चाद्वलिताः । | स्थूलभद्रेण तु तत्र स्थित्वा दशपूर्वाण्यधीतानि । ___अर्थकदा गृहीतवीक्षा यक्षाद्याः स्थूल भद्रभगिन्यस्तत्र गुरुवंदनार्थं समागताः, भद्रबाहुस्वामिनं बंदित्वा तत्र * च स्थूलभद्र मुनिमहादवा ताभिविनयावनतमस्तकाभिः पृष्टं-हे गरवः । स्थूलभद्रमुनिः क्वास्ति ? गरुभिरक्त निकट- IS देवकले स्वाध्यायपर स्थितोऽस्ति । तत् श्रुत्वा ता महासत्यो निजभ्रातरं चंदितुं तनिकटस्थलदेबकुल प्रति गमनं ४ चक्र: । दूरतस्ताः समागच्छंतीविलोक्य निजचापल्यतः कुतहलोत्करितमानसेन तेन निजविद्याबला स्वकीयं विकरालसिंहरूपं विकुवितं । ताश्च तत्रस्थं महाभयंकरं पंचाननं विलोक्य मुग्धमृग्य इव भयकंपितचित्ता: द्रुतं पश्चादलित्वा गुरुसमीपमागताः, प्रोक्तं च ताभिहें गुरवस्तत्र त्वस्मभ्रातरं नूनं कवलीकृत्यको भयंकरः पंचाननः ॥१४
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy