SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ ।। १३९ ।। विविधोपदेश मणिमंत्रधारामंडितं जिनोपदिष्टधनागमामुतनिकुरंवं स्वीकुरु । ततः प्रबुद्धया तथा श्राविकात्वमंगीकृतम् । अय वर्षाकाले व्यतीतं सांत पंचाननगहनगृहानिवास्यादयस्ते त्रयोऽपि वाचंयमा अखंडिताभिग्रहा गुरुसमीपमुपाययुस्तदा गुरुभिः स्वासनात्किचिदुत्याय सन्मानपूर्वकं तेभ्यः प्रोक्तमहो भवद्भर्दुष्करं कार्यं कृतं । शिष्या अपि गुरू नमस्कृत्य स्वासनान्यलचक्रुः । इतो महात्मा स्थूलभद्रोऽपि निजपवित्रपादन्या संरुपाश्रयभूमिमलंचकार । तद्दर्शनमात्रत एव तदखंडब्रह्मचर्यमाहात्म्यदवरका कृष्ट इव गुरवोऽपि ससंभ्रममामनादुत्यायोवाश्रयद्वारागतं स्थूलभद्रमहामुनिममंदानंदोद्गारसन्निभैः स्वागतादिवचनामृतरसै महादरेण ब्रह्मचारिशिरोमणित्व राज्याभिषेकं कुर्वाणा इव स्नपयामासुः, हे दुष्करदुष्कर दुष्करकार के तिपदत्रयीमुख रंतस्तस्या निर्वचनीय ब्रह्मचर्यपटोद्घोषणां कुर्वत इव सन्मानयामासुच । स्थूलभद्रोऽपि चिरदृष्टगुरुचरणारविंदयो रोलंबायितशिरा नमस्कारं कृतवान् । ततोऽयं निखिल ब्रह्मचारि राजहंसोपमः स्थूलभद्रवाचंयमो निजासनकमलमलंचकार । अथ स्थूलभद्रं प्रति गुरुदत्तवहसन्मानादि विलोक्येर्ष्यानल प्लुष्टहृदयास्ते त्रयोऽपि मुनयो धनागम वचनामृतरस: सिच्यमाना अत्युपशांतभाव न प्राप्ताः । विचारितं च तैर्गुरवोऽपि नूनं मोहोटसुभर्यमाणा मंत्रिपुत्रत्वेन तस्मै बसन्मानादि चकुः । मोहपटलावृतलोचनर्गुरुभिः किल षड्रसाहा रोपेतचिरपरिचित वेश्यागृहस्थितिः प्रत्यक्षदूषणात्मकापि यदुत्तमोत्तमगुणगणोपेता दृष्टा तनूनं तेषां पक्षपातमेव सूचयति. अथ चेत् षडुरसाहारपूर्वकचेश्यागृहस्थितितो दुष्कर दुष्कर दुष्करकारकेति त्रिपदात्मका पदवी लभ्यते, तर्हि ।। १३९ ॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy