SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ " श्री दानादि कलक ॥१३८॥ विदारयंती विविधविलासोपेतहावभावान् दर्शयंती सा कोशाभिधवेश्या श्रीस्थूलभद्रमुनिसमीपे चित्रशालायां समागता । लग त्या नरकितिणीनातानुयायि तिरस्कृत भरतनाट्याचार्य नृत्यकलाडंबर लञ्जीकृताप्सरोगण कलकलाकलापं नृत्यमकारि । एव विधनृत्य कला हावभावादिभिरपि तमक्षुब्धं ज्ञात्वा सा निजवचनचातुरीं दर्शयामास । हे स्वामिन् ! पूर्वमावाभ्यां यथा विविधविलासोपयुक्ता भोगा भुक्ताः संति, तथैवाधुनापि त्वं निशंको मया सह भोगान भुंश्र्व ? किमनेन यौवनवयोविडंबननिभेन चारित्रेण १ यौवनवयोवृक्ष पलास्वादनयोग्योऽयं वर्षाकालः किं स्वयैवं विडंबनमात्रेण वृथैव निर्गम्यते ? चिरकालवियोगानलविधुरां मां भवत्कमलामलकोमलांगा लिंगनामृतसंचयसंचनेनोपशांतां कुरु ? तस्या इत्यादिवचनविलासशरनिकरैरपि स्वीकृतचारिवाभेद्यसन्नाहो महामुनिस्थूलभद्रो मनसापि मनाग्भेदभावं न प्राप्तः । एवं तया सर्वदा विविधहावभाव परिमंडितवाग्विलासादिटंकनैर्मुनिमनो भेत्तुं प्रयत्नः कृतः, परं श्रीस्थूलभद्रमहामुनिहृदयं वज्रनिर्मितमिव मनागपि तो भिन्नम् । अथ स्वकीयोपांगेक्षणप्रचंडानिलंरपि सुमेरुमिव तं निश्चलं विज्ञाय मस्तकन्यस्तांजलिः कोशावेश्या निजापराधमेवं क्षामयामास, हे महामुने ! मोहदशावरांगतया मया भवतः क्षोभाय योऽपरावः कृतः स मयि कृपापरंर्भवद्गिः क्षमाविषयी कार्यः इति श्रुत्वा स्थूलभद्रमुनिनोक्तं हे कोशे संसारबिलोद्भवा एते विषयदृग्विषभुजंगमा निजविषानुवज्वलज्ज्वालाभिः प्राणिनां चैतन्यधनं क्षणदेव भस्मकुर्वन्ति । अतस्त्वमपि निजचैतन्यधनरक्षणकृते शील कुलकं ग्यवभद्र कथा ॥१३८
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy