SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ ॥१३५० स वेषः स्वीकृतः । अथ साधुवेषयुतोऽसौ चपलं नृपसभायामागत्य धर्मलाभाशिषं दत्तवान् । राज्ञोक्तं किमिदं त्वया कृतं तेनोकं राजन् ! मयैतदेवालोचितमित्युक्त्वा स्थूलभद्रस्ततो मुक्तनिर्मोको नाग इव निर्गतः । राज्ञा वत्समानार्थविलकनाथ पृष्ठे निजसेवका मुक्ताः । स्थूलभद्रस्तु चांडालपाटकमिव वेश्यापाटकं दूरतो मुक्त्वा श्रीसंभूतिविजयसमीपे समागत्य दीक्षां गृहीतवान् । सेवकमुखाद्राज्ञा तं तथाभूतं विज्ञाय श्रीयकाय मंत्रिमुद्रा प्रदत्ता । अथ स्थूलभद्रं दीक्षितं विज्ञाय विरहातुरा कोशा श्रीयकपार्श्वे समागत्य रुदनं चकार श्री केनोक्तमेतत्सर्वमपि विपरीत कार्यं वररुचिना कृतमस्तीत्युक्त्वा तेन सर्वोऽपि वृत्तांतस्तरयं कथितस्तदा कोशापि वरस्रुपरि भृशं कोपारा जाता । श्रीयकेनोक्तं स्वद्भगिन्योपकोशया सह वररुचेः संबंधोऽस्ति ततरतां कथयित्वा स कथचिदपि मदिरापानासक्तः कार्यस्ततोऽहं येन केनाप्युपायेनंतर निष्क्रियां करिष्यामि, कोशयापि तदगीकृत्य तथैव कारितं । अथ वररुचिनिर्भयः सन् सर्वेदा नृपसभायां समायाति काव्यैश्व नृपं प्रसन्नीकृत्य द्रव्यं गृहणाति । अर्थकदा निर्जनमवसरं प्राप्य श्रीयकेन राज्ञो विज्ञप्तिः कृता, स्वामिन्! संप्रति भांडागारे द्रव्यं स्तोकमस्ति । राज्ञा शकालं स्मृत्वा कथितं तस्मिन् सुमंत्रिणि सति मम भांडागारे कदापि द्रव्यन्यूनता नाभूत् । श्रीयकेदोक्तं स्वामिन्ननेन मद्यपेन वररचिना तदा बालानां मृषाकाव्यमध्याप्य भवन्मनो विप्रतारितं । राज्ञोक्तं किमयं मद्यपानं करोति ? श्रीयकेनोक्तं प्रभातेऽहं भवतां तत्प्रतीति कारयिष्यामि । अथ श्रीयकेन गृहे समागत्य मालिनमाहूयोक्तं प्रभाते राजसभायां सर्वेभ्यस्त्वयैकैकं कमलं देयं । तदा वररुचेर्हस्ते त्वया मदनफलरसभावितं कमलं देवमित्याग्रह ॥१३५॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy