________________
श्री दानादि
कुलक
वृत्तिः
।। १३४।।
कृतवान् तदा नृपः पराङ्मुखीभूय तस्यानादरं कृतवान् । द्रुतमेव मंत्रिणा गृहमागत्य श्रीयकमाहूय कथितं हे वत्स ! केनापि दुर्जनेन प्रेरितो नृपोऽद्य ममोपरि क्रुद्धोऽस्ति ततश्च यावत्सकलकुल विनाशकालो न समापतेत्तावता कुलरक्षणप्रयत्नो विधेयः । अथाहं प्रभाते मुखमध्ये तालपुटविधं धृत्वा नृपं प्रति नमिष्यामि तदा त्वया करवा लेन मम शिरण्छेदः कर्तव्यः । महता कटेन कथमपि तत्कार्यकरणाय तं प्रतिबोध्य मंत्री प्रभाते सभायामागत्य नृपाय प्रणामं कृतवान् । परं राजा पराङ्मुखो जातस्तदेव श्रीयकेन करालकरवालतो मंत्रिशिरश्छेदः कृतः । हा हेति कथयता राज्ञा श्रीयकः पृष्टी - हे बल्स ! किमेतत्त्वया कृतं ? श्रीयकेनोक्तं-स्वामिन् ! या भवतोपमानपात्र जातस्तेन पित्रापि किं प्रयोजनं ? यतो येन कर्णस्त्रयते तत्सुवर्णमपि निरुपयोभ्येव । तत् श्रुत्वा संतुष्टो राजा तस्मै मंत्रिमुद्रां दातुं लग्नः । श्रीयकेनोकं हे स्वामिन्! मम वृद्धभ्राता स्थूलभद्रो बेदागृहे वस । तत्रस्थेन तेन सूर्योदयास्तमप्यजानता द्वादशसुवर्णकोटिविलसितास्ति । तमाहुयेयं मुद्रा दातव्या । राजा तमाहूय कडालमरणकथनपूर्वकं तस्मै मंत्रिमुद्रिका दातुं प्रवृत्तस्तदा स्थूलभद्रेणोक्तमहं विमुध्योत्तरं दारयामि । राज्ञोतमस्यामशोकवाटिकायां गत्वा विमृश्य द्रुतं समागच्छ इत्युक्तः स्थूलभद्रोऽशोकवाटिकायां गत्वा विचारयति अहो धिवसंसारं यया मंत्रिमुद्रया जनकाय मरणं दत्तं तथा मे कि श्रेयो भविष्यति ? अयं संसारः केवलं स्वाथव्याकुल एव न कोऽपि कस्यापि बल्लभोऽस्तीति विचार्य तेन " करेमि भते" इत्यादिपाठः समुचरितस्तदैव शासनदेवतया तस्मै संसारांभोनिधिपारप्रापणार्थ पोत इव साधुवेषो दत्तः । सांसरिक वेषं शरीरविलग्नं भुजंगमिव परित्यज्य तेन
CO
शीलकुलकं
स्थलभन कथा
।। १३४।।