SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ ।।१२७।। प्राप्तः । इतः शीलवत्या राशोऽग्रे स्वर्णस्थालिका मुक्ता: । पश्चात्तयोक्तं-भो यक्षाः ! पक्वान्नानि समानयत ! तत्कालमेव तैश्चतुभिः पक्वान्नभृतवंशभाजनानि भूमिगृहत ऊर्ध्वकृतानि । तस्मात्पक्वान्नानि समादाय तथा राजे परिवेषितानि । अथ तद्वीक्ष्य विस्मयमापन्नो राजा चितयति नूनमस्या गृहे देवाः पक्वान्नादि पूरयति । भोजनानंतरं राज्ञा तद्गृहमजित सेनामार्गितं । शीलवत्योक्तं हे राजन् ! तान यक्षानेवाहं भवद्भ्यः समर्पयिष्यामि ! ततस्तया करंडकेषु निक्षिप्तास्ते चत्वारोऽपि पुरुषा नूपाय समर्पिताः । राजावि करडकस्थांस्तान् रथे संस्थाप्य निजगृहे समायातः । अथ तेन तेभ्यो यक्षेभ्यः पक्वान्नादिप्राप्त्याशया रसवतीकृते सूदा निषिद्धाः । भोजनसमये राजा करंडकस्थेभ्यः पक्वान्नादि मार्गितं तदा तेभ्यो दीनस्वरो निर्गतो यद्वयं कुतो द्रद्यः ? एवं तेभ्यो मनुष्यकृतं दीनस्वरं श्रुत्वा विस्मितेन राज्ञा ते करंडकाः समुद्घाटितास्तदा तेभ्यो विकरालरूपा दुर्बल शरीरिण: परिहितजीर्णवप्रायाः प्रेता इव ते कामांकुराद्याः प्रकटीभूताः । राज्ञा पृष्टास्ते सर्वमप्युक्त्वा शीलवत्याः प्रशंसा चक्रुः 1 तत् श्रुत्वा राजा शीलवतीमाकार्य निजापरावं क्षामयामास । इतस्तत्र ज्ञानिगुरवः समागताः राजादयः सर्वेऽपि तस्मै वदितुं गताः । देशनांते राजा गुरुभ्यः पृष्ट हे भगवन ! केन गुणेन धर्मेण वा शीलवती बुद्धिनिपुणा जाता ? ज्ञानिनोक्तं पूर्वभवे कुशलपुरे कश्चिदेको दरिद्री बभूव तस्य दुगिलाख्या भार्या एकदा तया महासाध्य पृष्ट हे भगवति ! वयमाजन्म दरिद्रिणः स्मः । ततोऽस्मान् दुःखात्समुद्धर ! साध्व्योक्तं महानुभावे ! पुण्यं कुरु । परपुरुषनिषेधं गृहाण | पुनः पंचमीतपश्च कुरु । दुगिलया तत्सर्वमप्यंगीकृतं । ततस्तौ दंपती शुद्ध 1192811
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy