SearchBrowseAboutContactDonate
Page Preview
Page 132
Loading...
Download File
Download File
Page Text
________________ दानादिकुलक शीलकुलक वृत्तिः कथा ॥१२८॥ श्राद्धधर्म पालयित्वा सौधर्मे देवलोके देवी जातौ । ततश्च्युत्वा तस्या भर्तजीवोऽयमजितसेनो जातः । सा चेयं शीलवती जाता, पंचमीतपःप्रभावतस्तस्या निर्मला बुद्धिरभवत्त । पूर्वभवाभ्यासेन तया निर्मलं शीलं पालितं । तत् श्रुत्वा ताभ्यां द्वाभ्यामपि जातिस्मरणं प्राप्य वैराग्यतो दीक्षा ग्रहीता । शुद्ध चारित्र प्रपाल्य पंचमे देवलोके तो देवी जातो, ततश्च्युत्वा मनुष्यत्वमासाद्य तो मोक्षं गमिप्यतः ॥ इति शीलकुलके शीलवती कथा ॥ सिरिवद्धमाणपहुणा, सुधम्मलाभुत्ति जीए पठविऊ । सा जयऊ जए सुलसा, सारयससिविमलसीस.गुणा 1॥११॥ व्याख्या-श्रीवर्धमानप्रभुणा धर्मलाभ इति यस्याः प्रति श्रावकांबडेन सार्थ कथापितः, सा मुलसा जगति जयतु, सा कीदृशी? शरत्कालस्य यः शशी चंद्रस्तद्वन्निर्मला: शोलादिगुणा यस्याः ||११|| तम्याः कथा चेत्थं राजगृहनगरे श्रेणिकाभिधो राजास्ति, तश्रको नागनामा क्षत्रियो वसति, स महाशूरो जिनधर्म मर्मज्ञइचासीत् । तस्य शोलादिगुणगणोपेता सुलसाभिधा भार्या बभूव । सा संतानरहितत्वात् सर्वदा स्वचित्ते खेदमवहत् । अर्थकदा त खिन्नां विज्ञाय भ; कथित-हे प्रिये ! त्वया कश्चिद्देव आराध्यः । सुलसयोक्तं-हे स्वामिन ! मिथ्यात्विदेवाराधनेन छोयोऽभिलाषा निष्फलेव, अतोऽहं श्री वीतरागगुरुपूजनपूर्वकं शुद्धसम्यक्त्वमाराधयिष्यामीत्युक्त्वा सा श्रीजिनधर्मसमाराधनकव्यापारा जाता । इतः सौधर्मेद्रेण निजसभायां सम्यक्त्वाराधने सुलसाया: प्रशंसा कृता । तदसहमानः कश्चिन्मिथ्यात्विदेवो ग्लानसाधो रूपं विधाय सुलसागृहे समागतः । सुलसया वंदित्वागमनकारणं पृष्टेन तेनोक्तं तव गृहे लक्षपातलं वर्तते तन्मे रोगापनयनकृते देहि । तत् श्रुत्वा स्वं धन्यं ॥१२८॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy