________________
१।१२५॥
मम शीलभंगो ज्ञातव्यो ने चेदहमखंडितशीला ज्ञातव्या । अथ तां माला कंठे निधाय स नृपेण सह प्रस्थितः । क्रमेण च ससैन्यो नृपो वृक्षादिरहितायां महाटव्यां प्राप्तः । अथाजितसेनकठे तामम्लानां पुष्पमालां दृष्ट्वा नपेण पृष्ठं, हे मंत्रिनस्यामटव्यां मायादिरहितायां पुत इकनालाना भाला त्वया लब्धा? तदाजित सेनेग स्वकीयसकलोदंतपूर्वकं निजललनाया अखंडितशीलस्त्रयुक्त महासतीत्वं प्रकटीकृतं । तत् श्रुत्वा विस्मितेन राजा तत्तरीक्षार्थं प्रच्छन्न वृत्या कामांकुरललितांगरतिकेल्यशोकाभिधानाचत्वारो विट्पुरुषाः सकलवृत्तांतकथनपुरस्सरं शीलवत्या पार्श्व मुक्ताः । तेऽपि तस्याः शील खंडनकृते प्रतिज्ञां कृत्वा ततश्चलिताः । नगरमध्ये समागत्य तं: शीलबत्या गृहनिको गृहमेकं गृहीत्वा निवासः कृतः । तत्र ते कामोन्मादजनकानृत्यगायगादिहावभावान् कुर्वति । व तत् श्रुत्वापि शीलवती बधिरेव तानपेक्षते ।
अयैकदा कामांकुरेण भोगादिप्रार्थनार्थ शीलवतीपार्श्वे दूती मुक्ता, तया तत्र गत्वा शीलवत्यै तद्वार्ता PR कथिता, शीलवत्या तु सा निर्भय॑ गृहानिष्कासिता । एवं शेषत्रयेणापि पृथक्पृथक् तथैव कृतं । परं शीलवती
न चलिता । अथ शीलवत्या चितितं नूनं सा पुष्पमाला राज्ञा दृष्टास्ति । तेन चेय॑या मम शोलभगायते पुरुषाः प्रेषितः संति । ततोऽथ मया निजचातुर्येण स्वशीलरक्षणपूर्वकं तेभ्योऽपि तेषां दुःशीलत्वफलं प्रदर्शनीयमिति विचित्य यदा सा दूनी पुनरपि त, प्रेरिता तस्याः समीपे समागता तदा शीलबत्योक्तमेतत्कार्य द्रव्यं विना न भवेदतस्तै: प्रत्येक रेकैकलक्षदीनारानयनपूर्वकं रात्रौ मम गहे क्रमेणैकद्वित्रिचतुःप्रहरेषु समागंतव्यं । परं तेषु परस्पर
॥१२५॥