SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ ॥१२१ महोदधोंदूतल्यं तं शुकं कनकपंजरगतं हस्ते गृहीत्वा क्रीडाद्याने सीमंधरस्वामिप्रासादे गत्वा प्रभु नमस्कृत्यानेकरसिककाव्यैः स्तुति कर्तुं लग्ना। तदा राजकुमारीहस्तस्थसुवर्णपंजरगतः शुक्रोऽपि तां प्रभुप्रतिमां दृष्ट्वा चितयामास मया त्वेवंविधा प्रतिमा नूनं कदापि दृष्टास्ति । इति चितयतस्तम्य जातिस्मरणज्ञानं समुत्पन्नं । तेन स निजपूर्वभवं चितयितु लग्नो यथा-मया पूर्वभवे चारित्रं प्राप्य शास्त्राण्यधीत्यापि वस्त्रपुस्तकपामादिमूर्छया चारित्रं विराध्य निजज्ञानं वृथा निर्गमितं । ततः कालं कृत्वाहमत्र बने शुकोऽभवं 1 अथ मयाद्यप्रभृति सर्वदा प्रभुमेनं प्रणम्यैव भोजनं कर्तव्यमित्यभिग्रहस्तेन गृहीत: । अथ सुलोचना शुकसहिता पुनः स्वगृहे समायाता । द्वितीयदिने सुलोचनया यदा स शुको हेमपंजराबहिनिष्कास्य स्वहस्ते गृहीतम्तवा "नमो अरिहंताणं" इत्युच्चरन् समुड्डीय तत्र प्रासाद गत्वा प्रभुप्रतिमां प्रणम्य बहिरागत्य स बनफलानि भक्षयितुं लग्नः । मुलोचना स्वत्र शुकविरहातुरा चंद्र बिना चकोरीव विविधान् विलापांश्चकार । एवं रुदनपरां तां ज्ञात्वा पदातय: शुकानयनार्थ धावितास्तश्च तत्रामृतरुशाखायां शुकं विलोक्य गृहीत्वा चपलं कुमारिकायै समपितः । सुलोचनया क्रोधेनैतस्य गतिभंगकृते पार्श्वतो द्वावपि पक्षी छेदितौ स्वर्णपंजरे च स निक्षिप्तः । अथ तत्रस्थेन तेन चितितं धिमस्तु मांप्रति यन्मया पूर्वभवे चारित्रं विराद्ध तेनात्र भवे मम पारवश्यं संप्राप्त । अथ गृहीतनिजाभिग्रहपालन बहादरोऽयं जिनदर्शनवंचित आहारं परित्यज्यानशनं गृहोत्वा सौधर्म देवलोके देवो जातः । सुलोचनापि शुकशोकविरहातुराऽनशनं प्रतिपद्य सौधर्मदेवलोके शुकदेवप्रिया जाता । १२१॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy