________________
श्री
शील
कुलक
दानादिकुलकवृत्तिः
कथा
॥१२०11
महोदधि चपलमुल्लसितं कुरु । अन्यथा नृपो ननमग्नी प्रविश्यात्मघातं करिष्यति । अथ कलावती तापसानापृच्छय दत्तेन सह रथस्थिता चचाल । तूर्णं च निजनगरपरिसरे प्राप्ता 1 राजापि तामागतां श्रुत्वा नयनाभ्यामणि मुञ्चन् द्रुतं सन्मुखमागतः । निजापराधं च क्षामयित्वा महोत्सवपूर्वक पुत्रसहितायास्तस्या नगरप्रवेश कारयत् । ततोगजन्मनोऽपि तेन स्वप्नानुसारेण पूर्णकलश इति नाम दत्तं । अर्थकदा कलावत्या राज्ञो पुष्टं-हे स्वामिन् ! केनापराधेनाहं वनमध्ये त्यक्ता कृता च छिन्नहस्ता ? तदा लजितेन राज्ञा प्रोक्त-हे भद्रे ! त्वं तु | सर्वथैव गतकलंकासि, मया तु किंचित्पूर्वदुष्कर्मानुसारेण यत्त्वयि अनाचरणं विहितं तन्मातंगरपि न क्रियते, इति कथयित्वा रोन सर्वोऽयुदंतः कथितः ।
इतस्तत्रैको ज्ञानी मुनिः समायातः । राजा कलावत्या सह मुनि नंतु समागतः । मुनिना देशना दत्ता । तत् श्रवणानंतरं राज्ञा मस्तकेंजलिं कृत्वा पृष्टं-हे भगवन्ननया कलावत्या किमेतत्कर्मोपाजितं येन मया निष्कलं. कापि सा छिन्नहस्ता विहिता । मुनिरुवाच-हे राजन ! श्रीमहाविदेहे माहेंद्रपुरनगरे विक्रमाभिधराज्ञो लीलावत्यभिधमार्याकुक्षिसमुद्भबा सुलोचनाह्वया पुत्री बभव । क्रमेणषा यौवन प्राप्यकदा नपोत्संगपंकजे हंसलीलायितं दधौ । तदकेन केनचित्पुरुषेणकः शुको राज प्राभृतीकृतः। पठितीऽसौ शुको राशे मधुरवचनैराशीर्वादं ददौ। तुष्टेन राज्ञा स शुको निजपुश्यं समर्पितः । राजकुमारी तं शुक्र सुवर्णपंजरे निक्षिप्य तस्मै भक्षणकृते दाडिमद्राक्षादि ददाति । अथ क्रमेण तस्य शुकस्योपरि तस्यात्यंतप्रीति: संजाता । क्षणबारमपिं सा तस्य विरहं न सहते। एकदा सा सुलोचना निजानंद