SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ !!११९11 तावत्तबंधुजयसेनकुमारनामांकितं दृष्टं । ततः संभ्रांतेन राज्ञा तस्याः सखी तद्विषये पृष्टा । तयोक्त-स्वामिन् ! देवशालनगरागतप्रधानपुरुषाणां हस्तेन राज्या भात्रा जयसेनेमाभूषणवस्त्रादीनि निजभगिनीकृते प्रेषितान्यभवन् । तत् श्रुत्वा राजा ते प्रधानपुरुषा आहूय पृष्टास्तदा तैस्तथैव यथास्थितवृत्तांतो निवेदितः । तत श्रुत्वा राजा वाहत इव निश्चेतनीभूय भूमौ पपास । प्रधानादिभिः शीतलानिलजलादिभिः सचेतनीकृता नृपो विविधान् बिलापान् वतुं प्रवृत्तः । विरहानलोद्भूतांगारराशिभिस्तन्मुखकमल म्लानि प्राप्त । दुःखव्याकुलोऽसौ वह्नौ प्रवेष्टुं समुद्यतोऽभूत् । तदा दत्तव्यवहारिणा समागस्य राज्ञे विज्ञप्तिः कृता, हे स्वामिन् ! समदिवसावधि त्वं प्रतीक्षस्व यावदहं तत्र गत्वा: तस्याः शुद्धि करिष्ये । इति राजानं प्रतिबोध्य स तां गवेषयितुमरयमध्ये भ्रमणं चकार । इतस्तेन सरिदुपकंठे कतिचित्तापसा दृष्टाः । तेभ्यस्तेन पृष्-भो तापसा ! भवद्भिः किं काचिदेकाकिनी महिला दृष्टा? तैरक्तं तव तया साधं कि कार्यमस्ति ? ततस्तेन सर्व वृत्तांत कर्शयत्वोक्त'-है | तापसास्तस्याः कलावत्या वियोगेन राजा निजदेहं त्यजति, ततो यदि सा चेत्समासाद्यते तहि जीवितदानपुण्यं भवेत् । इति श्रुत्वा तरनुभितं नूनमयं राजः प्रधानोऽस्तीति विचार्य तैर्दताय पुत्रसहिता सा कलावती दशिता। दत्तं दृष्ट्वा कलावत्या नयनाभ्यामश्रुधारा पतिता । ततोऽसी तामाश्वास्य राज्ञो वृत्तांत निवेदयामास । कथित च पुनस्तन हे भमिनि ! कृतं कर्म विना भुक्त नव प्रहीयते । तीर्थकरा दिसत्पुरुषा अपि निजकर्मफलानि भुक्त्वैवाधिगतानंतसौख्यात्मकमोक्षभाजो भवंति । अथ त्वं निजवदनंदुदर्शनतो विरहबड़वाग्निदग्धं नृपहृदयानंद
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy