SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ शोल श्री दानादि कुलकबत्तिः कया ॥११८॥ छेदयित्वा, तां । तव मुक्त्वात्रागत्य तद्वस्तद्धयं मे समर्पणीयं । अथ ते मातंग्यौ तां रथाधिरूढां कृत्वाऽरण्ये समागत्य कथयामासतुः, हे मातर्न ज्ञायते यत्केन कारणेन राज्ञा त्वं परित्यक्तेत्युक्त्वा राज आदेशस्तस्यै ताभ्यां प्रोक्तः । तत् श्रुत्वैषा विविधान् विलापान करोति । इतस्ताभ्यां तस्या हस्ताबलकारयुतौ छेदयित्वा प्रस्थितं । अथ महावेदनाब्याकुलया तया तत्र पुत्ररत्नं प्रसूतं, परं कररहिता सा तस्य जलशुद्धि कर्तुमप्यसमर्थासीत । इतस्तस्याः शीलमाहात्म्यतस्तत्र जलवृप्टिर्जाता, नद्यां च जलपूरं समागतं । एवं मेघवृष्ट्यंव तत्पुत्रदेहशुद्धिर्जाता । ततस्तया किचिदनुकूलं स्वदेव विज्ञायोकां यदि मया त्रिकरणशुद्धधा शीलं पालित भोत्तदा मम करी पुनः समागच्छतां । तत्क्षणमेव गगनांगणकुसुमबृष्टिपूर्वक तस्या अलंकारोपे करयुगलं स्थान स्थिर बभव । अर्थषा निजाभंकमादाय तटिन्यपरतटे संप्राप्ता । इतस्तत्र स्नानार्थ मागत एको बुद्धस्तागसस्ता तथावस्थामचिरप्रसबिनीं विज्ञाय दयाद्रीतःकरणः कथयामास, हे सुभगे ! हे पुत्रि ! एतदवस्थया त्या बने स्थातुमयुक्तमतो ममाश्रमे समागपरछेत्युक्त्वा स तां स्वाश्रमे समानीतवान् । ततस्ता दुःखितामाश्वास्य तापसेन पष्ट-हे पत्रि ! त्वं कस्य भार्या ? कस्माच्चासनप्रसविन्यप्यरण्यमध्ये समागता ? तत् श्रुत्वा कलावत्या स्वकीयः सकलोऽपि वृत्तांतस्तापसाय कथितः । कृपालुना तापसेन सा पुनरप्याश्वास्य स्वाश्रमे रक्षिता । धर्मध्यानयुता सा तत्र सुतमहिता निजसमयं गमयांचकार । अथ मातंगीयुगलेनालंकारसहितं कलावतीकरयुगलं राज्ञोऽग्रे मुक्तं । राजा तदलंकार यावद् गृहणाति 11११८॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy