SearchBrowseAboutContactDonate
Page Preview
Page 121
Loading...
Download File
Download File
Page Text
________________ ॥११७॥ सार ॥१॥ इति स्वकीयचित्तकलापिकादंबिनीध्वनितल्यं प्रश्नोत्तरध्वनि श्रुत्वा मयूरीवामंदानंदसंदोहयुता कलावती द्रुतं शंखराजकठे वरमाळां चिक्षेप । अथ तां सुमहर्ते परिणीय शंखराजा निजनगरं प्रति प्रस्थितः । महोत्सवपूर्वक पुरिप्रवेशं विधाय कलावत्या सह विषयसुखं भुजानाऽयं सुखेन राज्यं पालयति 1 अशैकदा कलाबत्या स्वप्ने कामकुंभं वीक्ष्य राज्ञे तद् ज्ञापितं । राज्ञोक्तं-हे प्रिये ! सर्वशुभलक्षणोपेतो राज्यभारधुरंधरस्ते मनोज्ञः पुत्रो भविष्यति । अथ कलावती सगभी विज्ञाय विजयसेन राज्ञा सा निजप्रधानपुरुषान् संप्रेष्य स्वगृह समासा । ते प्रधानपुरुषः सह कलावत्यर्थ तद्भात्रा जयसेनेन मनोहरवस्त्रोपेते द्वे भजाभरणे प्रेषिते आस्तां । राश्या तु तदा* भूषणवस्त्राणि राज्ञोऽदर्शयित्वैव पेटायां मुक्तानि । अथ तेषां प्रधानपुरुषाणां महताग्रहेणापि राजा निजरानो न प्रेषिता । ततस्ते व्याघटय निजनगरं प्रति गताः । अथैकदा कलावती ते भुजाभरणे परिधाय हास्यविनोदं कुर्वती सखीनामग्रे कथयति, हे सख्यः ! येन पुरुषेण ममतान्याभरणवस्त्राणि मुक्तानि तेन सह ममात्यंतप्रीतिर्वर्तते । कदा स दिवसः समायास्यति यदाहं तेन सह मिलित्वा ममात्मानममंदानंदसंदोहपराकाष्टी प्रापयिष्यामीत्यादिमिश्रशब्दानच्चारयंत्येषा प्रच्छन्नस्थितेन राज्ञा दृष्टा । तत् श्रुत्वा च क्रोधाध्मातचितो राजा विचारयामास यदस्याः केनाप्यपरपुरुषेण सार्धमवर्णनीयस्नेहो वर्तते । यस्य॑तान्युद्गारसन्निभानि वचनानि तस्या दुःशीलत्वं प्रकटो कूर्वति । अथास्याः परित्याग एवं युक्त इति विचार्य तेन रात्री मातंगीद्वयमाहूयोक्त' युवाभ्यां कलावती रथे समारोप्य बनमध्ये नीत्वाऽभूषणयुतं तस्या हस्तद्वयं च ॥११७१।
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy