SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ ११५ पृष्ट-हे महासति ! उक्तज्ञानयुक्ता मर्यका निर्दोषा मम स्त्री परित्यक्ता साथ कीदृशी भविष्यति ? साध्व्योक्तं त्वं खेदं मा कुरु । संवैषाहं नर्मदासंदर्यस्मीत्युक्त्वा प्रतीत्यर्थ तया सर्वोऽपि संकेतितवृत्तांतः कथितः । अथ तामु. पलक्ष्य महेश्वरेण क्षमा याचिता । साध्व्योक्त-ष तव दोषो मम कर्मणामेवायं दोषः । ततो महेश्वर ऋषिदत्त वैराग्यतो दीक्षां जगहतः । क्रमेण ते त्रयोऽयनशनं कृत्वा देवलोके गताः, भर्वकेन च माझं गमिष्यति ।। इति शीलकुलके नर्मदासुन्दरी कथा ॥ भद्द कलावईए, भीसणरन्नंमि रायचत्ताए । जे सा सीलगुणणं, छिन्नगा पुण नया जाया ।।५।। व्याख्या-कलावत्याः सत्या भद्र कल्याणमस्तु, रौद्रारण्यमध्ये राजा त्याजिता या सा स्वशील गणेन क्रत्वा छिन्नांगा सती पुनर्नवा जाता ।।९।। तस्याः कथा चेत्यं-- जंबूढीये मंगलावतीविजये शंखपुरे नगरे शंखनामा राजा राज्यं करोति । अर्थकदा विदेशागततनगरनिवासिनागोष्ठिपत्रदसन राज्ञोऽग्ने प्रामृतमानीय मुक्तं । कुशलोदतपूर्वक राज्ञा पृष्टं चेस्किमप्याश्चर्यं विलोकित भवेत्तदा कथय । तेनोक्त-हे स्वामिन ! देवशालनगरे मर्यकत्रियो मह स्वरूपं दृष्टमित्युक्त्वा तेन राज्ञोऽग्रे तत्प्रतिकृतिचित्रपट्टो मुक्तः । तद् दृष्ट्वा राज्ञोक्तं-मो दत्त ! नूनमियं कापि देवीव दृश्यते मानुष्या इदं रूपं तु दुर्लभ । दत्तेनोक्तं, स्वामिनियं देवशालपुरशितुर्विजयसेन राज्ञः श्रीमतीराजीकुश्यद्भवायाः कलावत्याः प्रतिकृतिरस्ति । तया चैवं प्रतिज्ञा कृतास्ति, यद्यः कोऽपि मम चतुःप्रश्नानामुत्तरं प्रदास्यति तस्यैवाहं पाणिग्रहणं करिष्यामि. KE||१३५॥
SR No.090433
Book TitleDanadikulaksangrah
Original Sutra AuthorDevendrasuri
AuthorJinendrasuri
PublisherHarshpushpamrut Jain Granthmala
Publication Year
Total Pages292
LanguageSanskrit
ClassificationBook_Devnagari & Religion
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy