________________
श्री
दानादिकुलकवृत्तिः
।। ११४।
वध्ध्वा च तस्था
अथ जिनदासेन नृपाज्ञया लोकानां दर्शनाय बलात्कारेण तस्याश्चरणौ निगडितौ । हस्ती सा प्रवणमध्ये मुक्ता, वाहितानि च प्रवहणानि । पथि तया सर्वग्रथिलतां त्यक्त्वा स्नानं कृत्वा जिनाम दत्तवस्त्राभूषणानि परिहितानि । क्रमेण प्रवणानि भृगुकच्छ्रे प्राप्तानि मिलिता च नर्मदा निजपितृव्याय । पितृव्योऽपि हृष्टः सन् जिनदासस्य महोपकारं मन्यमानस्तया सह नर्मदापुर्यां समागतस्तां दृष्ट्वा सर्वमपि कुटुम्ब प्रमुदितं । तयापि सर्वं निजविडंबनं कुटुंबाने प्रकटीकृतं । अथैकदा ज्ञानी मुनिरेकस्तत्र समायातस्तं प्रति वंदनार्थं सर्वे गताः । देशनांते नर्मदा पित्रा पृष्टं - हे भगवन् ! केन कर्मणा नर्मदा दुःखिनी जाता ? मुनिनोक्तं सा पूर्वभवे नायिका देव्यासीत् । एकदा शीतादिपरीषहसहनार्थं साधुरेकस्तत्र समायातः । तं वीक्ष्य मिथ्यात्वभावेन तथा तस्योपसर्गाः कृताः । परं साधुं मिचलं ज्ञात्वा तं भ्रामयित्वा सम्यक्त्वमंगीकृतं । ततश्च्युत्वेयं तव तनया नर्मदा सुन्दरी जाता । भवांतराभ्यासतस्तद्गर्भोत्पत्तिसमये तस्या मातुर्नर्मदा नदी स्नान दोहदो जातः । साधूपसर्गकरणतस्तस्तया च दुःखं प्राप्तं । इति श्रुत्वा नर्मदया जातिस्मरणं प्राप्य दीक्षा गृहीता । एकादशांगाम्यधीत्य विविधतपसा शरीरशोषं विधायकदा सा परिवारयुता चंद्रपुरी समागता । महेश्वरदत्तोपाश्रये व स्थिता श्वश्रू श्वशुरभदोनुपलक्ष्य धर्म श्रावयति परं ते तां नोपलक्षयति । अथैकदा तया महासत्या स्वरलक्षणादीनि व्याख्यातानि यत्स्वरश्रवणेनैवेत्थं पुरुषादीनां वर्णाकार तिलमपवर्षादीनि ज्ञायंते । तत् श्रुत्वा महेश्वरेण चितितं यद्येवंविधं वर्णनं शास्त्रमध्ये वर्त्तते, तदा नूनं मया सा निरपराधा प्रिया परित्यक्ता । इति चिता कुलहृदयेन तेन
शीलकुल के
नर्मदा
सन्दरी
कथा
।। ११४।।