________________
नो दृष्ट 1 ततस्तां यूथभ्रष्ट मुगीमिवैकाकिनी कानननिवासिसिंहादिक्रूरप्राणिनिहतां मन्यमानः शोकानलदग्धहृत्तणकुटीरो रामः कथंचिदयोध्यायां सारथियुतः समागत्य, कृत्वा च तस्याः प्रेतकार्याणि, राजकार्यादिपरामखो लक्ष्मणादिभिः प्रतिबोध्यमानोऽपि सीताध्यानकलीनचेता मूढ इब निजसमयं गमयांचकार । अथ तत्र लवांकुशी सकल कलाकलापकलितौ क्रमेण ललितललनाहृदयांबुजहंसलीलायिताहवयसौ जातौ । तदा वज्रजंधेन निजकनलवणिमतिरस्कृतशशिले खाशशिचुलाभिधाना निजतनया लबाय परिणायिता । अंकुशार्थ च स्वमित्रा थराजपाचे तत्तनूजा मागिता, पृयुना च तदज्ञातवंशादिदूषणदानपूर्वकं तम स्वीकृतं । तदा संग्रामे पृथुरज बिजिन्य पराक्रमेण च स्वकीयोत्तमकुलता प्रकटोकृत्य प्रांते च सन्मानादिना तं प्रीणयित्वा लवणिमाद्यगण्यगुणगणमंडितां तम्य पुत्रीमंकुश: परिणीतवान् । इतस्ता कुतहलंकप्रियेण नारदेनाप्यागत्य लवांकुशयो रामसीतांगजन्मत्वं निवेद्य सर्वेऽप्यतूलहर्षोल्लसितमानसा बिदधिरे । अथ लवांकुशौ निजभुजाबलेन बलवतोऽपि कतिचिद्भूपतीन् वशीकृत्य प्रकपिताचलाचलं भूरिगजतुरगस्यदनसुभटावितं बलमादायायोध्यानिकटे समागतौ । तत् श्रुत्वा रामलक्ष्मणावपि निजसंन्यमादाय सन्मुखमागतौ । द्वयोः संन्ययोः परस्परं खड्गखड्गिशराशरि युद्धं प्रवृत्तं । तदा लवांकुशाभ्यां कल्पांतकालविकरालघनाधनधाराधोरणीभिरिव कांताकृष्टधनुर्मुक्तबाणधाराभिः पद्मसैन्यपद्मबनखंडं तथा विलोडितं यथा कतिचिद्राजहंसंस्तत: पलायितं । पयोऽपि पद्ममिवातविंशरारूता प्राप्तस्तदा लक्ष्मणेनानन्योपायेन ज्वलज्ज्वालामालाकरालित चक्र ताभ्यां प्रति मुक्तं । तचक्रम पि निसर्गतो गोविघातपराङ्मुखीभूतत्वात्तन्मुक्तशरराजिभिर्जर्जरी
॥१९॥