________________
श्री
कुलक
सोता कथा
क्षणं तत्रक तस्थिवान् । अथ सोता तत्र मनसि महादुखं वहमाना मच्छिता भूमौ पतिता । क्रमाच्छीतलानिलदानादि
संयोगत सचेतनोभूय चिन्लापं चकार-हे गमचन्द्र : यदि त्वया लोकापवादभीतनाहं त्यक्ता नहि लोकप्रत्यक्ष मम कुलकवृत्तिः
परीक्षा तब कि न कता ? अहो राम ! त्वया मे सगर्भाया अबलाया अपि दया मनसि नानीता । इत्यादि विविध प्रकारान् विलापान् कृत्वा या चितयामास, अहोऽत्राथें रामस्य कि दयण ? ममैव प्राक्तदुष्कर्मणामय
मुदयो बभूव । अथ भर्ना स्वह परिहना पर जिनोको धर्मो मां मा परिहरतु । अथ सीतां नमस्कत्य स्वाम्या१॥९८
जैकपालने निजसार्थकतां मन्यमानो रथिको मनसि दुःखं वहमानोऽपि नयनाभ्यामणि मुंचन् रथमादायायोध्या प्रति चलितः । इतस्तत्र परनारीसहोदरनुल्यः पंडरीकाभिघन गराधिपतिवनजंघनामा नपस्तत्र समायानस्तेन बिलापान कुर्वती सीतां प्रति पाटं-हे भगिनि ! त्वं कासि ? केन दुःखेनात्र गहनगहने समागतासि? तद्वचनतस्तं सत्पुरुषं ज्ञात्वा संतुष्टया सीलया स्वकीयः सर्वोऽपि वृत्तातस्तस्मै निवेदितः । राजा तामाश्वस्य गिजनगर्यामानौतवान् । निजमगिनिकृत्य चावासमध्ये रक्षिता, तत्र तया पुत्रयुगलं प्रसवितं । राजा च महोत्सवपूर्वक तयोर्लवांकुशाभिधाने दत्ते, क्रमेण सत्रैव च ती बघितो।।
इतो रथिकेनायोव्यायामागत्य सीताकृतविलापायुदंतकथन पूर्वक सर्वोऽपि तद्वत्तांतो रामाय कथितः । तत श्रुत्वा पश्चात्तापं कुर्वाणो रामः सीतावियोगदुःखविदीर्णमानसो रयिनमादाय तूर्ण तत्र देने समागतः, कृतं च तेन र स्थाने स्थाने परिभ्रम्य तत्र सीताया गवेषणं, किंतु निर्भाग्यवता रंककुटुंबिना निधानमिव तेन क्वापि सीतामुखं
1९८11