________________ Hind i - EDO . - -- - - ( 672 ) प्रध्यात्मयोगो न्यायतीर्थ पूज्य श्री 105 शुल्लक मनोहर जी वर्णी श्रीमत्सहजानन्द महाराज द्वारा विरचितम् सहजपरमात्मतत्त्वाष्टकम् / / शुद्धं चिदस्मि सहजं परमात्मतत्त्वम् / / यस्मिन् सुधाम्नि निरता गतभेदभावाः, प्राप्स्यन्ति चापुरचलं सहजं सुशर्म / एकस्वरूपममलं परिणाममूलं, शुद्धं चिदस्मि सहजं परमात्मतत्त्वम् // 1 // शुद्धं चिदस्मि जपतो निजमूलमंत्रं, ॐ मूर्ति मूतिरहितं स्पृशतः स्वतंत्रम् / यत्र प्रयान्ति विलयं विपदो विकल्पा:, शुद्धं चिदस्मि सहज परमात्मतत्त्वम् // 2 // भिन्नं समस्तपरतः परभावतश्च, पूर्ण सनातनमनन्तमखण्डमेकम् / निक्षेपमाननयसर्वविकल्पदूर, शुद्धं चिदरि, ह परमार, सत्वर / ज्योतिः परं स्वरमकर्तृ न भोक्तु गुप्तं, झानिस्ववेचमकलं स्वरसाप्तसत्त्वम् / चिन्मात्रधाम नियतं सततप्रकाशं, शुद्धं चिदस्मि सहन परमात्मतत्त्वम् // 4 // प्रतिब्रह्मसमयेश्वरविष्णुवाच्यं, चित्पारिणामिकपरात्परजल्पमेयम् / यदृष्टिसंश्रयणजामलवृत्तितानं, शुद्ध चिस्मि सहजं परमात्मतत्त्वम् / / 5 / / प्राभात्यखण्डमपि खण्डमनेकमशं, भूतार्थबोधविमुखव्यवहारदृष्टयाम / प्रानंदशक्तिशिबोधचरित्रपिण्डं, शुद्धं चिदस्मि सहज परमात्मतत्त्वम् // 6 // शुद्धान्तरङ्गसुविलासविकासभूमि, नित्यं निरावरणमजनमुक्तमोरम् / निष्पीतविश्वनिजपर्ययशक्ति तेजः, शुद्धं चिदस्मि सहजं परमात्मतत्त्वम् / / 7 / / घ्यायन्ति योगकुशला निगदन्ति यद्धि, यद्ध्यानमुत्तमतया गदितः समाधिः / यद्दर्शनात्प्रवहति प्रभुमोक्षमार्गः, शुद्धं चिदस्मि सहज परमात्मतत्त्वम् // 6 // सहजपरमात्मतत्त्वं स्वस्मिन्ननुभवति निर्विकल्पं यः / सहजानन्दसुवन्धं स्वभावमनुपर्ययं याति // -