________________
रत्नकरण्ड श्रावकाचार
[ ४७ निःकांक्षित अंग में अनन्तमती रानी, तीसरे निविचिकित्सा अंग में उदायन राजा, चौथे अमूढ़ष्टि अंग में रेवती रानी, पाँचवें उपगृहन अंग में जिनेन्द्रभक्त सेठ, छठे स्थितीकरण अंग में वारिषेण, सातवें वात्सल्य अंग में विष्णुकुमार मुनि और आठवें प्रभावना अंग में वज्रकुमार मुनि प्रसिद्धि को प्राप्त हुए हैं ।
तत्र निःशंकितत्वेऽञ्जनचोरो दृष्टान्ततां गतोऽस्य कथा
यथा-धन्वन्तरिविश्वलोमौ सुकृत कर्मवशादमितप्रभविद्य त्प्रभदेवौ संजाती चान्योन्यस्य धर्मपरीक्षणार्थ मत्रायातौ । ततो यमदग्निस्ताभ्यां तपसश्चालितः । मगधदेशे राजगृहनगरे जिनदत्तश्रेष्ठी कृतोपचासः कृष्णचतुर्दश्यां रात्री श्मशाने कायोत्सर्गेण स्थितो दृष्ट: । ततोऽमितप्रभदेवेनोक्त दूरे तिष्ठन्तु मदीया मुनयोऽमु गृहस्थं ध्यानाच्चालयेति, ततो विद्युत्प्रभदेवेनानेकधा कृतोपसर्गोपि न चलितो ध्यानात् । ततः प्रभाते मायामुपसंहुत्य प्रशस्य चाकाशगामिनी विद्या दत्ता तस्मै, कथितं च तवेयं सिद्धाऽन्यस्य च पंचनमस्कारार्चनाराधनविधिना सेत्स्यतीति । सोमदत्तपुष्पवटुकेन चैकदा जिनदत्तश्रेष्ठी पृष्ट:-चत्र भवान् प्रातरेवोत्थाय बजतीति । तेनोक्तमकृत्रिम चैत्यालयवन्दनाभक्ति कतुं वजामि । ममेत्थं विद्यालाभः संजात इति कथिते तेनोक्त मम विद्यां देहि येन त्वया सह पुष्पादिक गृहीत्वां वंदनाभक्ति करोमीति । ततः थोष्ठिना तस्योपदेशो दत्तः । तेन च कृष्ण चतुर्दश्यां श्मशाने वटवृक्षपूर्वशाखायामष्टोत्तरशतपादं दर्भशिक्यं बन्धयित्वा तस्य तले तीक्ष्णसर्वशस्त्राण्यूर्ध्वमुखानि धृत्वा गन्धपुष्पादिकं दत्त्वा शिक्यमध्ये प्रविश्य षष्ठोपवासेन पंचनमस्कारानुच्चार्य छुरिकयकैकं पादं छिन्दताऽधो जाज्वल्यमानप्रहरण समूहमालोक्य भीतेन तेन संचिन्तितं--यदि श्रेष्ठिनो वचनमसत्यं भवति तदा मरणं भवतीति शंकितमना वारंवारं चटनोत्तरणं करोति । एतस्मिन् प्रस्तावे प्रजापालस्य राज्ञः कनकाराजीहारं दृष्ट्वांजनसुन्दर्या बिलासिन्या रात्रावागतोंजन चोरो भणितः। यदि मे कनकाराज्याहारं ददासि तदा भर्त्ता त्वं, नान्यथेति । ततो गत्वा रात्रौ हारं चोरयित्वांजनचोर आगच्छन् हारोद्योतेन ज्ञातोऽगरौः कोट्टपालैश्च ध्रियमाणो हारं त्यक्त्वा प्रणश्य गतः घटतले बटुक दृष्ट्वा तस्मान्मत्रं गृहीत्वा निःशंकितेन तेन विधिनक बारेण सर्वशिक्यं छिन्न शस्त्रोपरि पतितः सिद्धया विद्यया भणितं-ममादेशं देहीति । तेनोक्तंजिनदत्तधेष्ठिपाश्र्चे मां नयेति । तत: सुदर्शन मेरु चैत्यालये जिनदत्तस्याग्ने नीत्वा स्थितः । पूर्ववृत्तान्त कथयित्वा तेन भणितं-यथेयं सिद्धा भवदुपदेशेन तथा परलोक सिट्टावप्युपदेहीति । ततश्चारणमुनिसन्निधौ तपो गृहीत्वा कैलासे केवलमुत्पाद्य मोक्षं गतः ।।१।।