________________
२७२ ]
रत्नकरण्ड श्रावकाचार श्रुतवाने कौण्डेशो दृष्टान्तः । अस्य कथाकुरुमणिग्रामे गोपालो गोविन्दनामा । तेन च कोटशदुद्धृत्य चिरन्तनपुस्तकं प्रपूज्य भक्त्या पद्मनन्दिमुनये दत्तम् । तेन पुस्तकेन तत्राटव्यां पूर्वभट्टारकाः केचित् किल पूजां कृत्वा कारयित्वा च व्याख्यानं कृतवन्तः कोटरे धृत्वा च गतयन्तश्च । गोविन्देन च बाल्यात्प्रभृति तं दृष्ट्वा नित्यमेव पूजा कृता वृक्षकोटरस्यापि । एष स गोविन्दो निदानेन मृत्वा तत्रैव ग्रामकूटस्य पुत्रोऽभूत् । तमेव पद्मनन्दिमुनिमालोक्य जातिस्मरो जातः । तपो गृहीत्वा कोण्डेशनामा महामुनिः श्रुतधरोऽभूत् । इति श्र तदानस्य फलम् ।
वसतिदाने सूकरो दृष्टान्तः । अस्य कथा
मालवादेशे घटग्रामे कुम्भकारो देबिलनामा नापितश्च धमिल्लनामा। ताभ्यां पथिक जनानां वसति निमित्त देवकुलं कारितम् । एकदा देविलेन मुनये तत्र प्रथम वसतिर्दत्ता, धमिल्लेन च पश्चात् परिव्राजकस्तत्रानीय धृतः । ताभ्यां च धमिल्ल परिवाजकाभ्यां निःसारितः स मुनिर्वृक्षमूले रात्री दंशमशकशीतादिकं सहमानः स्थितः । प्रभाते देविलधमिल्ली तत्कारणेन परस्परं युद्ध कृत्वा मृत्वाविन्ध्ये क्रमेण सूकरव्याघ्रौ प्रौढौ जाती। यत्र च गुहायां स सूकरस्तिष्ठति तत्रैव च गुहाथामेकदा समाधिगुप्तत्रिगुप्तमुनि आगत्य स्थिती। तो च दृष्ट्वा जातिस्मरो भूत्वा देविलचरसूकरो धर्ममाकर्ण्य प्रतं गृहीतवान् । तत्प्रस्तावे मनुष्यगन्धमाघ्राय मुनिभक्षणार्थं स व्यानोऽपि तायातः । सूकरश्च तयोःरक्षानिमित्त गुहाद्वारे स्थितः । तत्रापि तौ परस्परं युद्ध्वा मृतौ । सूकरो मुनिरक्षणाभिप्रायेण शुभाभिसन्धित्वात् मृत्वा सौधर्म महद्धिको देवो जातः । व्याघ्रस्तु मुनिभक्षणाभिप्रायेणातिरौद्राभिप्रायत्वान्मृत्वा नरकं गतः । वसतिदानस्य फलम् ।।२।।
चार प्रकार का दान किस-किस के द्वारा दिया गया, यह कहते हैं
(श्रीषेणवृषभसेने) श्रीषेण, वृषभसेना ( कौण्डेशः ) कौण्डेश ( प ) और (शुकरः) सूकर (ऐते ) ये ( चतुर्विकल्पस्य } चार भेद वाले ( वैयावृत्यस्य ) वैयावृत्य के (दृष्टान्ताः) दृष्टान्त (मन्तव्याः) मानने के योग्य हैं ।
टोकार्थ- श्रीषेण राजा आहारदान में, वृषभसेना औषधदान में, कौण्डेश उपकरणदान में और शूकर आबासदान में दृष्टान्त हैं, ऐसा जानना चाहिए ।
आहारदान में श्रीषेण राजा का दृष्टान्त है । इसकी कथा इस प्रकार है--