________________
२७० ]
सापुत्री ज्ञाता । एवमेकदा श्रीषेणराजेन परमभक्त्या विधिपूर्वकर्मक कीत्य मितगतिचारणमुनिभ्यां दानं दत्तम् । तत्फलेन राज्ञा सह भोगभूमाबुत्पन्ना । तदनुमोदनात् सत्यभामापि तत्रैवोत्पन्ना । स राजा श्रीषेणो दानप्रथमकारणात् पारम्पर्येण शान्तिनाथ तीर्थंकरो जातः । आहारदानफलम् ।
रत्नकरण्ड श्रावकाचार
औषधदाने वृषभसेनाया बृष्टान्तः । अस्याः कथा-
जनपददेशे कावेरीपत्तने राजोग्रसेनः श्रेष्ठी धनपतिः, भार्या धनश्रीः, पुत्री वृषभसेना, तस्याधात्री रूपवती नामा | एकदा वृषभसेनास्नानजलगर्तायां रोगगृहीतं कुक्कुरं पतित लुठितोऽत्थितं रोगरहितमालोक्य चिन्तितं धात्र्या-पुत्रीस्नानजलमेवास्यारोग्यत्वे कारणम् । ततस्तया धात्र्या निजजनन्या द्वादशवार्षिका क्षिरोगगृहीतायाः कथिते तया लोचने तेन जलेन परीक्षार्थमेकदिने धौतइष्टे च शोभने जाते । ततः सर्वरोगापनयने सा धात्री प्रसिद्धा तत्र नगरे संजाता । एकदोग्रसेनेन रणपिंगलमंत्री बहुसैन्योपेतो मेघपिंगलोपरि प्रषितः । स तं देशं प्रविष्टो विषोधक सेवनात् ज्वरेण गृहीतः । स च व्याघुटयागतः रूपवत्या च तेन जलेन नीरोगीकृतः । उग्रसेनोऽपि कोपात्तत्र गतः तथा ज्वरितो व्याघुट्घायातो रणपिंगलाज्जलवृत्तान्तमाकर्ण्य तज्जलं याचितवान् । ततो मंत्र उक्तो धनश्रिया भोः श्रेष्ठिन् ! कथं नरपतेः शिरसि पुत्रीस्नानजलं क्षिप्यते ? धनपतिनोक्तं यदि पृच्छति राजा जलस्वभावं तदा सत्यं कथ्यते न दोषः । एवं भणिते रूपवत्या तेन जलेन नीरोगीकृत उग्रसेनः । ततो निरोगेण राज्ञा पृष्टा रूपवती जलस्य माहात्म्यम् । तया च सत्यमेव कथितं । ततो राज्ञा व्याहूतः श्रेष्ठी स च भीतः राज्ञः समीपमायातः । राजा च गौरवं कृत्वा वृषभसेना परिणेतु स याचितः । ततः श्रेष्ठिना भणितं देव ! टाकां पूजां जनप्रतिमानां करोषि तथा पंजरस्थान् पक्षिगणान् मुञ्चसि तथा गुप्तिषु सर्वमनुष्यांश्च मुञ्चसि तदा ददामि । उग्रसेनेन च तत् सर्वं कृत्या परिणीता वृषभसेना पट्टरानी च कृता । अतिबल्लभया तयैव च सह विमुच्यान्यकार्यं क्रोडां करोति । एतस्मिन् प्रस्तावे यो वाराणस्याः पृथिवीचन्द्रो नाम राजा धृत आस्ते सोऽतिप्रचण्डत्वात्तद्विवाहकालेऽपि न मुक्तः । ततस्तस्य या राज्ञी नारायणदत्ता तया मंत्रिभिः सह मंत्र यित्वा पृथिवी चन्द्रमोचनार्थं वाराणस्यां सर्वत्रावारितसत्कारा वृषभसेनाराज्ञीनाम्ना कारितास्तेषु भोजनं कृत्वा कावेरीपत्तनं ये गतास्तेभ्यो ब्राह्मणादिभ्यस्तं वृत्तान्तमाकर्ण्य रुष्टया रूपवत्था भणिता वृषभसेने ! त्वं मामपृच्छन्ती वाराणस्यां कथं सत्कारान् कारयसि ? तया भणितमहं न कारयामि किन्तु सम नाम्ना केनचित्कारणेन केनापि