________________
रत्नकरण्ड श्रावकाचार
[ २६९ शास्त्रों का दान ही गभित है । किन्तु उपकरणदान में संयम के उपकरण मयूरपिच्छिका तथा शौच के उपकरण कमण्डल का दान दोनों ही आ जाते हैं, आवासदान-वसतिकादान, अभयदान का ही एक रूप है। किन्तु अभयदान शब्द अधिक व्यापक है, क्योंकि इसमें प्राणिमात्र की रक्षा का भाव देखा जाता है ।
पूज्यपादस्वामी और अकलंकदेव ने भिक्षा, औषध, उपकरण और प्रतिश्रय के भेद से अतिथिसंविभागवत के चार भेद माने हैं जो समन्तभद्रस्वामी की मान्यता के अनुरूप ही हैं ॥२७॥११७॥ तच्चतुष्प्रकारं दानं कि केन दत्तमित्याह
श्रीषेणवृषभसेने कौण्डेशः सूकरश्च दृष्टान्ताः ।
वैयावृत्यस्यैते चतुर्विकल्पस्य मन्तव्याः ॥२८॥ चतुर्विकल्पस्य चतुर्विधवैयावृत्यस्य दानस्यते श्रीषेणादयो दृष्टान्ता मन्तव्याः ।
तत्राहारवाने श्रीषेणो दृष्टान्तः । अस्य कथा
मलयदेशे रत्नसंचयपुरे राजा श्रोषेणो राज्ञी सिंहनन्दिता द्वितीया अनिन्दिता च । पुत्रौ क्रमेण तयोरिन्द्रोपेन्द्रौ। तत्रैव ब्राह्मणः सात्यकिनामा ब्राह्मणी जम्बू, पुत्री सत्यभामा । पाटलिपुत्रनगरे ब्राह्मणो रुद्र भट्टो बटुकान् वेदं पाठयति । तदीयचेटिकापुत्रश्च कपिलनामा तीक्ष्णमतित्वात् छद्मना वेदं शृण्वन् तत्पारगो जातो । रुद्रभट्टेन च कुपितेन पाटलिपुत्रान्निर्घाटितः । सोत्तरीयं यज्ञोपवीतं परिधाय ब्राह्मणो भूत्वा रत्नसंचयपुरे गतः । सात्यकिना च तं वेदपारगं सुरूपं च दृष्ट्वा सत्यभामाया योग्योऽयमिति मत्वा सा तस्मै दत्ता । सत्यभामा च रतिसमये विटचेष्टां तस्य दृष्ट्वा कुलजोऽयं न भविष्यतीति सा सम्प्रधार्य चित्त विषादं वहन्ती तिष्ठति । एतस्मिन् प्रस्तावे रुद्रभट्टस्तीर्थयात्रां कूणिो रत्नसंचयपुरे समायातः । कपिलेन प्रणम्य निजधवलगृहे नीत्वा भोजनपरिधानादिकं कारयित्वा सत्यभामायाः सकललोकानां च मदीयोऽयं पितेति कथितम् । सत्यभामया चैकदा रुद्र भट्टस्य विशिष्टं भोजनं बहुसुवर्णं च दत्वा पादयोलगित्वा पृष्टंतात ! तव शीलस्य लेशोऽपि कपिले नास्ति, ततः किमयं तव पुत्रो भवति न वेति सत्यं मे कथय । ततस्तेन कथितं, पुत्रि । मदीयचेटिकापुत्र इति । एतदाकर्ण्य तदुपरि विरक्ता सा हठादयं मामभिगमिष्यतीति मत्वा सिंहनन्दिताग्रमहादेव्या: शरणं प्रविष्टा, तया च