________________
रत्नकरण्ड धावकाचार
[ १७९ रयमिति मत्वा विश्वसितेन मया यष्टि: कुक्कुरादिनिवारणार्थं समर्पिता। तां गहीत्वा स गतः (२) ततो मया महाटव्यां गच्छतातिवृद्धपक्षिणोऽतिकुर्कुटं दृष्टं । यथा एकस्मिन् महति वृक्षे मिलिता: पक्षिगणो राबावेकेनातिवद्धपक्षिणा निजभाषया भणितो रे रे पुत्राः । अहं अतीवगन्तु न शक्नोमि । बुभुक्षित मनाः कदाचिद्भवत्पुत्राणां भक्षणं करोमि चित्तचापल्यादतो मम मुखं प्रभाते बध्वा सर्वेऽपि गच्छन्तु । तैरुक्त हा हा तात! पितामहस्त्वं किं तवैतत् संभाव्यते ? तेनोक्त'-'बुभुक्षितः किन करोति पापं' इति । एवं प्रभाते तस्य पुनर्वचनात् तन्मुखं बद्ध्वा ते गताः । स च बद्धो गतेषु चरणाभ्यां मुखाबन्धनं दूरीकृत्वा तद्बालकान् भक्षयित्वा तेषामागमनसमये पुनः चरणाभ्यां बन्धनं मुखेसंयोज्याति कुकुंटेन क्षीणोदरो भूत्वा स्थितः (३) ततो नगरगतेन चतुर्थमति कुर्कुट दृष्टं मया । यथा तत्र नगरे एकश्चौरस्तपस्विरूपं धृत्वाबृहच्छिलां च मस्त कस्योपरि हस्ताभ्यामूवं गृहीत्वा नगरमध्ये तिष्ठति दिवा रात्रौ चाति कुर्क टेन 'अपसर जीव पाद ददामि, अपसर जीव पादं ददामीति भणन् भ्रमति । 'अपसर जीवेति' चासौ भक्तसर्वजनर्मण्यते । स च गर्तादिविजनस्थाने दिगवलोकनं कृत्वा सुवर्णभूषितमेकाकिनं प्रणमन्तं तया शिलया मारयित्वा तद्रव्यं गृह्णाति (४) इत्यतिकुकुट चतुष्टयमालोक्य मया श्लोकोऽयं कृत:
अबालस्पर्शका नारी ब्राह्मणोणहिसकः ।
वने काष्ठमुख: पक्षी पुरेऽपसरजीवकः ।। इति
इति कथयित्वा तलारं धरियित्वा सन्ध्यायां ब्राह्मण शिक्यतपस्विसमीपं गत्वा तपस्विप्रतिचारकैनिघटयमानोऽपि राश्यन्धो भूत्वा तत्र पतित्वैकदेशे स्थितः । ते च प्रतिचारकाः राश्यन्धपरीक्षणार्थ तृणकट्टिकांगुल्यादिकं तस्याक्षिसमीपं नयन्ति । स च पश्यन्नपि न पश्यति । बृहद्रात्री गुहायामन्धकूपे नगरद्रष्यध्रियमाणमालोक्य तेषां खादनपानादिकं वालोक्य प्रभाते राज्ञा मार्यमाणस्तलारो रक्षितः तेन रात्रिदृष्टमावेद्य । स शिक्यस्थस्तपस्वी चौरस्तेन तलारेण बहुकदर्थनादिभिः कदर्थ्यभानो मृत्वा दुर्गति गतस्तृतीयाव्रतस्य । ___ आरक्षिणाऽब्रह्मनिवृत्त्यभावादुःखं प्राप्तम् ।
अस्य कथा आहीरदेशे नासिक्यनगरे राजा कनकरथो राज्ञी कनकमाला, तलारो यमदण्डस्तस्य माता बहुसुन्दरी तरुणरण्डा पुश्चली। सा एकदा वध्या धतुं समर्पिताभरणं