________________
रत्नकरण्ड श्रावकाचार
[ १७७ समर्प्य स्वयं गृह्णाति । पूत्कतुंबिभेति लोकः। न च पूत्कृतं राजाशृणोति । अथैकदा पद्मखण्डपुरादागत्य समुद्रदत्तो वणिक्पुत्रस्तत्र सत्यघोषपाश्र्वेऽनर्धाणि पंच माणिक्यानि धृत्वा परतीरे द्रव्यमुपाशितु गतः । तत्र व शर्थ असा युकिः स्फुटित प्रवण एकफलकेनोत्तीर्य समुद्रं धृतमाणिक्यवांछया सिंहपुरे सत्यधोषसमीपमायातः। तं च रंकसमानमागच्छन्तमालोक्य तन्माणिक्यहरणार्थिना सत्यघोषेण प्रत्ययपूरणार्थं समीपोपविष्टपुरुषाणां कथितं । अयं पुरुषः स्फुटितप्रवणः ततो पहिलो जातोऽत्रागत्य माणिक्यानि याचिष्यतीति । तेनागत्य प्रणम्य चोक्त भो सत्यघोषपुरोहित ! ममार्थोपार्जनार्थ गतस्योपाजितार्थस्य महाननों जात इति मत्वा यानि मया तव रत्नानि धतु समर्पितानि तानीदानी प्रसादं कृत्वा देहि, येनात्मानं स्फुटितप्रवहणात् गतद्रव्यं समुद्धरामि । तद्वचनमाकर्ण्य कपटेन सत्यघोषेण समीपोपविष्टा जना भणिता मया प्रथमं यद् भणितं तद् भवतां सत्यं जातं । तैरुक्त भवन्त एवं जानन्त्ययं ग्रहिलोऽस्मात स्थानानिः सार्यतामित्युक्त्वा तैः समुद्रदत्तो ग्रहान्नि: सारित: ग्रहिल इति भण्यमानः । पत्तने पूत्कारं कुर्वन ममानय॑पंचमाणिक्यानि सत्यघोषेण गृहीतानि । तथा राजगृह समीपेचिंचावृक्षमारुह्य पश्चिमरात्री पूत्कारं कुर्वन् षण्मासान् स्थितः। तां पूत्कृतिमाकर्ण्य रामदत्तया भणितः सिंहसेनः-देव ! नायं पुरुषः नहिलः । राज्ञापि भणितं किं सत्यघोषस्य चौर्य संभाव्यते? पुनरुक्त राज्ञा देव ! संभाव्यते तस्य चौर्य यतोऽयमेताशमेव सर्वदा वचनं ब्रवीति । एतदाकर्ण्य भणितं राज्ञा यदि सत्यघोषस्यैतत् संभाव्यते तदा त्वं परीक्षयेति । लब्धादेशया रामदत्तया सत्यघोषो राजसेवार्थमागच्छन्नाकार्य पृष्ट:-कि बृहद्वेलायामागतोऽसि? तेनोक्त ममब्राह्मणीघ्राताद्य प्राघूर्णकः समायातस्तं भोजयतो बृहद्वेला लग्नेति । पुनरप्युक्त तया-क्षणमेकमत्रोपविश । ममातिकौतुकं जातं । अक्षक्रीडां कुर्मः। राजापि तत्रवागतस्तेनाप्येवं कवित्युक्त। ततोऽक्षद्यते क्रीडया संजाते रामदत्तया निपुणमतिविलासिनी कर्णे लगित्वा भणिता सत्यघोषः पुरोहितो राज्ञोपार्वे तिष्ठति तेनाहं अहिलमाणिक्यानि याचितु प्रेषितेति तद् ब्राह्मण्यग्न भणित्वा तानि याचयित्वा च शीघ्रमागच्छेति। ततस्तयागत्वा याचितानि ! तद्ब्राह्मण्या च पूर्व सुतरां निषिद्धया न दत्तानि । तद्विलासिन्या चागत्य देवीकणे कथितं सा न ददातीति । ततो जितमुद्रिकां तस्य साभिज्ञान दत्वा पुनः प्रेषिता तथापि तया न दत्तानि । ततस्तस्य कतिकायज्ञोपवीतं जितं साभि ज्ञानं दत्त दर्शितं च तया । ब्राह्मण्या तद्दर्शनात्तुष्टया भीतया च समर्पितानि माणिक्यानि तद्विलासिन्या: । तया च रामदत्तायाः समर्पितानि । तया च राज्ञो दर्शितानि ।