________________
रत्नकरण्ड श्रावकाचार
६७६ ] दुःखानुभवने उपाख्येया दृष्टान्तत्वेन प्रतिपाद्याः । के ते । धनश्री सत्यघोषौ च । न केवलं एती एव किन्तु तापसारक्षकावपि । तथा तेनैव प्रकारेण श्मश्रुनवनीतो वणिक, यतस्तेनापि परिग्रहनिवृत्यभावतो बहुतरदुःखमनुभूतं । यथाक्रमं उक्तक्रमानतिक्रमण हिंसादिविरत्यभावे एते उपाख्येयाः प्रतिपाद्याः । तत्र धनश्री हिंसातो बहुदु:खं प्राप्ता ।
अस्याः कथा लाटदेशे भृगुकच्छपत्तने राजा लोकपालः । वणिग्धनपालो भार्या धनश्री मनागपि जीववधेऽविरता । तत्पुत्री सुन्दरी पुत्रो गुणपालः । अपुत्रकाले धनश्रिया यः पुत्रबुद्धया कुण्डलो नाम बालकः पोषितः, धनपाले मृते तेन सह धनश्रीः कुकर्मरता जाता । गुणपाले च गुणदोष परिज्ञानके जाते धनश्रिया तच्छंकितया भणित : कुण्डलः प्रसरे गोधनं चारियतुमटव्यां गुणपालं प्रेषयामि, लग्नस्त्वं तत्र तं मारय येनावयोनिरंकुशमवस्थानं भवतीति अवाणां मातरमाकर्ण्य सुन्दर्या गुणपालस्य कथितं-अद्य रात्री गोधनं गृहीत्वा प्रसरे त्वामटव्यां प्रेयित्वा कुण्डलहस्तेन माता मारयिष्यत्यतः सावधानो भवेस्त्वमिति । धनश्रिया च रात्रिपश्चिमाहरे गुणपालो भणितो हे पुत्र कुण्डलस्य शरीर विरूपकं वर्तते अत: प्रसरे गोधनं गृहीत्वाद्यत्वं ब्रजेति । स च गोधनमटव्यां नीत्या काष्ठं च वस्त्रेण पिधाय तिरोहितो भूत्वा स्थितः । कुण्डलेन चागत्य गुणपालोऽयमिति मत्वा बस्त्रप्रच्छादितकाष्ठेघातः कृतो गुणपालेन च स खड्गेन हत्वा मारित: । गहे आगतो गुणपालो धनश्रिया पृष्ट: 'क्व रे कुण्डलः' तेनोक्त कुण्डलवार्तामयं खड़योऽभिजानाति । ततो रक्तलिप्तं बाहुमालोक्य स तेनैव खङ्गेन मारित: । तं च मारयन्तीं घनश्रियं हाटवा सन्दर्या मुशलेन सा हता | कोलाहले जाते कोट्टपार्लर्धनश्रीधुत्वा राज्ञोऽग्रे नीता। राज्ञा च गर्दभारोहणे कर्णनासिकाछेदनादिनिग्रहे कारिते मृत्वा दुर्गति गतेति प्रथमावतस्य ।
सत्यघोषोऽनृताबहु दुःखं प्राप्तः ।
इत्यस्य कथा जम्बूद्वीपे भरतक्षेत्रे सिंहपुरे राजा सिंहसेनो राज्ञी रामदत्ता, पुरोहितः श्रीभूति: । स ब्रह्मसूत्रे कतिका बध्वा भ्रमति । बदति च यद्यसत्यं ब्रवीमितदाऽनया कतिकया निजिह्वाच्छेदं करोमि । एवं कपटेन वर्तमानस्य तस्य सत्यघोष इति द्वितीयं नाम संजातम् । लोकाश्च विश्वस्तास्तत्पाश्र्वे द्रव्यं धरन्ति च । तद्रव्यं किंचित्त षां