________________
* श्री वीतरागाय नम: श्री समन्तभद्रस्वामी-विरचित
रत्नकरण्ड श्रावकाचार
श्री प्रभाचन्द्राचार्यनिमित टोकालंकृत
समन्तभद्र निखिलात्मबोधन,
जिनं प्रणम्याखिलकर्म शोधनम् । निबन्धनं रस्नकरण्डके पर,
करोमि भवषप्रतिबोधनाकरम् ॥ १॥ श्री समन्तभद्रस्वामी रत्नानां रक्षणोपायभूत रत्नकरण्डकप्रख्यं सम्यग्दर्शनादिरत्नानां पालनोपायभूतं रत्नकरण्डकाख्यं शास्त्रं कर्तु कामो निर्विघ्नतः शास्त्रपरि. समाप्त्यादिकं फलमभिलषनिष्टदेवताविशेषं नमस्कुर्वन्नाह
नमः श्रीवर्ड मानाय निर्धू तकलिलात्मने ।
सालोकानां त्रिलोकानां यद्विद्या दर्पणायते॥१॥
'नमो' नमस्कारोऽस्तु । कस्मै ? 'श्रीवर्धमानाय' अन्तिमतीर्थंकराय तीर्थंकर समुदायाय वा । कथं ? अव-समन्ताद्ध परमातिशयप्राप्तं मानं केवलज्ञानं यस्यासौ वर्धमानः । 'अवाप्योरल्लोपः' इत्यवशब्दाकारलोपः । त्रिया बहिरंगयाऽन्तरंगया च समवसरणानन्तचतुष्टय लक्षणयोपलक्षितो वर्धमानः श्रीवर्धमान इति व्युत्पत्तः, तस्मै । कथंभूताय ? 'निधूतकलिलात्मने' निधूतं स्फोटित कलिलं ज्ञानावरणादिरूपं पापमात्मन आत्मनां वा भव्यजीवानां येनासौ निधू तकलिलात्मा तस्मै । 'यस्यविद्या' केवलज्ञानलक्षणा । किं करोति ? 'दर्पणायते' दर्पण इवात्मानमाचरति । केषां ? 'त्रिलोकानां' त्रिभवनानां । कथं भूतानां ? 'सालोकानां' अलोकाकाशसहितानां । अयमर्थ :-यथा दर्पणो निजेन्द्रियागोचरस्य मुखादेः प्रकाशकरतथा सालोक त्रिलोकानां तथा विधानां तद्विद्या प्रकाशिकेति । अत्र च पूर्वाद्धन भगवत: सर्वज्ञतोपायः, उत्तरार्धेन च सर्वज्ञतोक्ता ॥१॥