SearchBrowseAboutContactDonate
Page Preview
Page 139
Loading...
Download File
Download File
Page Text
________________ 89580992860250 ज्ञानाधिकारोद्वितीयः CIRERELE अथ दर्शनरूपं धर्मं व्याख्याय ज्ञानरूपं तं व्याख्यातुमाह अन्यूनमनतिरिक्तं यथातथ्यं विना च विपरीतात् । निःसन्देहं वेद यदाहुस्तज्ज्ञानमागमिनः ॥१॥ 'वेद' वेत्ति | 'यत्तदाहुवते । 'ज्ञानं' भावश्रुतरूपं । के ते ? ' आग मिन:' आगमज्ञाः । कथं वेद ? 'निःसन्देह' निःसंशयं यथा भवति तथा। बिना च विपरीतात्' विपरीताद्विपर्ययाद्विनेव विपर्ययव्यवच्छेदेनेत्यर्थः । तथा 'अत्यूनं' परिपूर्णं सकलं वस्तुस्वरूपं यद्वेद ' तद्ज्ञानं' न न्यूनं विकलं तत्स्त्ररूपं यद्वेद । तर्हि जीवादि वस्तुस्वरूपेऽविद्यमानमपि सर्वथानित्यत्वक्षणिकत्वाद्वैतादिरूपं कल्पयित्वा यद्वेत्ति तदधिकार्थवेदित्वात् ज्ञानं भविष्यतीत्यत्राह - 'अनतिरिक्तं ' वस्तुस्वरूपादनतिरिक्तमनधिकं यद्वेद तज्ज्ञानं न पुनस्तद्वत्स्वरूपादधिकं कल्पनाशिल्पिकल्पितं यद्वेद । एवं चैतद्विशेषण चतुष्टयसामर्थ्याद्यथाभूतार्थवेदकत्वं तस्य संभवति तद्दर्शयति- ' याथातथ्य' यथावस्थित वस्तुस्वरूपं यद्वेद तद्ज्ञानं भावश्रुतं । तद्रूपस्यैव ज्ञानस्य जीवाद्यशेषार्थानामशेषविशेषतः केवलज्ञानवत् साकल्येन स्वरूपप्रकाशन सामर्थ्यसम्भवात् । तदुक्तं- स्याद्वाद केवलज्ञाने सर्वतत्त्वप्रकाशने । भेदः साक्षादसाक्षाच्चह्यवस्त्वन्यतमं भवेत् ॥ १ ॥ इति अतस्तदेवात्र धर्मत्वेनाभिप्रेतं मुख्यतो मूलकारणभूततया स्वर्गापवर्ग साधन सामर्थ्य संभवात् ।। १ ॥ 1
SR No.090397
Book TitleRatnakarand Shravakachar
Original Sutra AuthorSamantbhadracharya
AuthorAadimati Mata
PublisherBharat Varshiya Anekant Vidwat Parishad
Publication Year
Total Pages360
LanguageHindi
ClassificationBook_Devnagari & Religion
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy