________________
R
धन्यस्त्वमेव पूज्यो भुवनस्य, यस्य सुरेन्द्रो वैयावृत्ये निश्चलत्वं प्रशंसतीत्यादि स्तुत्वा क्षमयित्वा मुनि स्यागमनकारणमुक्त्वा स्वर्ग गतौ। मुनिरप्यनाकुलचित्तो मध्यस्थमना गुर्वन्तिकेऽविस्तवैयावृत्त्यमालोचयति । ततो विशेषतस्तपोवयावृत्यादि कुर्वन् पञ्चपश्चाशद्वर्षसहस्राणि श्रामण्य पालयित्वा कृतसंलेखनः प्रान्ते दौर्भाग्यं स्त्रीजनपराभवं विरूपित्वं पितृमरणादि च स्मृत्वोद्विग्नः साधुभिर्वारितोऽपि यद्येतस्य | तपसः फलमस्ति, तर्हि मनुष्यभवे मम मौभाग्यं स्वीजनवल्लभत्वं सुरूपत्वं लोकवल्लमत्वं भृयादिति कृतनिदानो मृत्वा सप्तमस्खगें सप्तदशसागरोपमस्थितिर्देवो जातः । ततः सौरीपरेऽन्धकवृष्णेदेव्याः सुभद्रायाः पुत्रो वसुदेवनामा रूपादिसम्पन्नस्समजनि । स च यथा
सौभाग्यभूमिर्देशान्तरं गतोऽनेकविद्याधरनरेन्द्रकन्याभिः परिणीतः, यथा च यादवानां मिलितो, यथा वासुदेवः पुत्रो जातस्तथा सर्व | ४ वसुदेवहिण्डेझेयमिति नन्दिषेण कथानकं समाप्तम् । तपस एव माहात्म्यं ख्यापयन्नाह ---
सुरअसुरदेवदाणव---नरिंदवरचकवहिपमुहेहिं । भत्तीए संभमेण य, तवस्सिणो चेव धुव्वंति ॥ ७९ ॥ # व्याख्या-इह सुरा-वैमानिकाः, असुराः-भवनपतयः, देवाः-ज्योतिष्काः, सूर्यादीनां लोकेऽपि देवत्वेन प्रसिद्धः, दानवा-उपठा लक्षणत्वादेव व्यन्तराः, नरेन्द्रवरा:-मण्डलिकादिभूपतयः, चक्रवर्तिनः प्रसिद्धाः, प्रमुखग्रहणेन सामन्तामात्यश्रेष्ठयादि(परि)ग्रहः, एतैः सर्वैरपि भक्त्या सम्यग्दृष्टिभिः सम्भ्रमेण वा शापदानादिभयेन वा मिथ्यादृष्टिभिरपि तपस्विन एव स्तूयन्ते इति गाथार्थः ।। ७८ ॥
___सुखार्थिभिश्च तपस्येव यतितव्यमित्याहका पत्थइ सुहाई जीवो, रसगिद्धो नेय कुणइ विउलतवं । तंतूहि विणा पड़यं, मगइ अहिलासमित्तेण ॥८॥
CAM