________________
| प्य देवतादत्तलिङ्गः प्रव्रज्यां प्रतिपनः शक्रेण परीक्षितोऽक्षोभ्यचित्तः प्रणतः, स्वर्ग गतः [शक्रः । मुनिरपि निरवद्या दीक्षां पालयित्वा | | सिद्धिं गतः । इति मणिरथचरितं समाप्तं, प्रसङ्गान्न मिचरितमपि । * हह च यदेव प्रकर्षमापन्नमुक्तनीत्या प्राणातिपातादिषु निमित्ती भवति, तदेव मनसा शीलविराधनं नरकदुःखहेतुर्विवक्षितं, न
तन्मात्रमिति गाथार्थः ॥ ६८ ॥ शीलमहात्म्यख्यापनार्थमेवाह
चिंतामणिणा किं ? तस्स, किं च कप्पदुमाइवत्थूहि ? । चिंताईयफलकर, सीलं जस्सऽथि साहीणं ॥६९॥ में व्याख्या-तस्य चिन्तामणिना किं ?, न किञ्चिदित्यर्थः, किं वा कल्पद्रुमादिवस्तुभिः ?, आदिशब्दात्कामधेन्वादिपरिग्रहः, यस्य |
चिन्तातीतं मोक्षप्राप्त्यादिफलकरं शीलं स्वाधीनमस्ति । चिन्तामण्यादयः कल्पितस्वरूपाणि हिरण्यलाभादीन्येव फलानि प्रयच्छन्ति, शीलं तु चिन्तातीतं मोक्षादिकं फलमपि करोतीत्येतदेवो पादेय] पेयं, नान्यदिति भावार्थः ॥ ६९ ॥
इति जिनपतिविष्टं देहभाजो! यथेष्ट, कृतगुणगणलीलं शोलपत्ये शीलम् । दिविजमनुजराजाऽभ्यर्चनाभक्ति हेतु-यदिह विकसदापत्सागरोत्तारसेतुः ॥ १॥
इति पुष्पमालाविवरणे [द्वितीयः] शीलधर्मः समर्थितः ॥ ४ ॥ ___ अथ तपोधम्म विभणिषुः शीलधर्मेण सह सम्बन्धगर्भा गाथामाहइय निजियकप्पदुम-चिंतामणिकामधेणुमाहप्पं । धन्नाण होइ सील, विसेसओ संजुयं तवसा ॥ ७० ॥