________________
गाथाक्षरार्थः । तत्र सीताचरित्रं सुप्रसिद्धमेवेति नेह विस्तरेणोच्यते, स्थानाशून्याथं तु किञ्चिदुच्यते,तद्यथा-लङ्काधिपं निहत्य स्वपुर्यामयोध्यायामानीतायाः सीताया गर्भ समुत्पने मासदयेऽतिक्रान्ते रामेण दोहदे पूरिते अन्यदा पूर्वार्जिततीव्रकर्मोदयादतीवापवादः प्रासार्षीत् , | यदुत-'इयचिरं रावणगृहे कथमखण्डशीला सीता ? इति । ततोऽपवादभीरू रामः सीतात्यागाय लक्ष्मणमादिदेश । स च निःश्वस्याह
... “जह सलाइ मंदरो सुसह, सायरो ल्हसइ मयलदिसिचकं ।।
तहवि हुन चलाइ सीलं, मीआए महासहवराए ॥ १ ॥" किञ्च"कत्तो वि दुजणाण, अविनमाणो वि फुरइ परदोसो। सच्छा वि हु सूरकरा, कलुसल्लिया कोमियकुलस्म । २॥" ६ किश्च-सीतायां त्यक्तायां त्रिभुवनेऽपि तेऽपवादः । अमुक्तायां तु पुर्यामेव संशयितः स इति । तथापि रामे तमसदाग्रहममुश्चत्यु
विमो लक्ष्मणः स्वगृहं गतः । ततो रामादिष्टः कृतान्तवदनः सेनानी: सीतामाह-स्वामिनि ! जिनभवनबन्दनदोहदस्तेऽभूत् तदत्र तानि वन्दितानि, शेषदेशेषु तद्वन्दने रघुराजेनाहमादिष्टस्ततो रथमारोहतु स्वामिनी इति । साऽपि दृष्टा तथाकरोत् । ततो ग्रामाकरनगररम्यां | बहुमहीमुल्लङ्घय गङ्गापरपारे भीषणारण्ये रथं संस्थाप्य गद्गदगिरा रामादेश सहेतुं सीतायै न्यवेदयत् सः। सीता तु तदाकर्ण्य मूञ्छिता भूमौ पपात, तेनोपचरिता तु लब्धचैतन्या दैवं नानोपालम्भैः सम्भावयन्ती विलयति पतति मूर्च्छति । सेनानीरपि तां तथा पश्यन् स्वं निन्दन् विलम्बमानोऽपि गत्वा रामाय तजगौ। रामोऽपि तत् श्रुत्वा मूछेति विलपति, सीता गुणान् स्मारं स्मारं पश्चात्तापं करोति । घाइतश्च पुण्डरीकपुरेशः सुश्रावको बज्रजराजा गजबन्धनाय तत्रागतो विलपन्ती सीता भगिनीत्वेन प्रतिपद्य स्वगृहेऽनपीत् । सा च तत्र
पुत्रयुगं सुलग्ने लव-कुशनामक प्रासूत । तारुण्ये लवो बहुकन्याः परिणिन्ये । कुसार्थे तु पृथुराजा प्रार्थितः 'कथमज्ञानकुलशीलस्य सुतां