________________
%%*
* व्याख्या--शीलमेव परमालङ्कारहतुवाद्वररत्न, तत्को मालेनयति !, न कापात्यर्थः, किं कृत्वा ? इत्याह-तथा-तेन शास्त्रप्रसि
द्धन प्रकारेण विस्मयकरं शीलरक्षणप्रयत्नं श्रुत्वा, कासां ? इत्याह-सुन्दरी शब्दः प्रत्येकमभिसम्बद्धयते, ततश्च रतिसुन्दरी ऋद्धिमुन्दरी | बुद्धिसुन्दरी गुणसुन्दरी, तासां कथाः पुनरेवम्
साकेतपुरे जितशत्रुनृपः, तत्र नृप-श्रेष्ठि-मन्त्रि-पुरोधःपुज्यो रतिसुन्दरी-ऋद्धिसुन्दरी-बुद्धिसुन्दरी-गुणसुन्दरीनाम्न्यश्चतस्त्रः । सख्यो जिनधर्ममर्मविदः, तत्र नृपपुत्री नन्दनपुरनृपेण परिणीता, तां चात्यन्तसुरूपां श्रुत्वा हस्तिनापुराधिपः सर्ववलेन तत्पति हत्या | | ताजग्राह, सा राज्ञाऽनेकचादुभिः प्रायमाना मदनफलादियोगेन वमनादिना खदेहस्वाशुचित्वमदर्शयत् । भणति च-सर्वोऽप्यशुचि
देहस्तत्कृतोऽनुरागः १, नृपः प्राह-प्रिये ! मम तव नयनयोर्महामोहः, ततस्तया रात्रौ शत्रण नयने उत्कीर्य राज्ञो हस्ते दत्ते, राजा च | तदृष्ट्वा वैराग्यं गतः । तद्व्यतिकरण रात्रि खिद्यमाने च रतिसुन्दरीकायोत्सर्गाकष्टदेयतया नूतने नयने दत्ते । लोके शीलधर्मप्रभावो मा विस्तृतः, ततः सा प्रत्रज्य स्वर्गमगात् ॥ १॥
अष्ठिपुत्री ऋद्धिसुन्दरी व्यवहारिपुत्रेण परिणीता, स सकलनः प्रवहणे आरूढः, भन्ने प्रबहणे काष्ठं लब्ध्वा सभार्यः शून्यहीये || कापि गता, तत्र जलार्थमागतेनान्यवणिजा स्वप्रयहणे नीतः । तत ऋद्धिसुन्दरीरूपमोहितेन तेन तत्पतिं समुद्रे पातयित्वा प्रार्थिना सा]: 5 ग्राह-"स्त्रीणां शतेन नैक-स्तृप्यति पुरुषोऽनिरुद्धकरणो यः । एकापि नैव तृप्यति, युवतिः पुरुषैश्च निःशेषः ॥१॥" तत्कि मुखसि ?, | ततः स तूष्णीं स्थितः, तदपि प्रवहणं भग्नं, सा फलकमेकं प्राप्य सोपारके गता । तत्र पूर्वायातस्तस्याः पतिमिलितः, कधितोऽन्योऽन्यः ।। ववृत्तान्तः, ततस्तो भवविरक्तो तत्र तिष्ठतः । वणिगपि फलके विलग्नस्तत्रैवागतः । मत्स्याहारैतिकुष्ठो दृष्टस्ताभ्यां उपचरितथ, जात
*