________________
R CIBRAR
गजेन्द्रो दानेन-मदेन विना न शोभते इति गाथार्थः ।। ५८ ॥ अथ दानस्सादायकानां दोपदर्शनदर्श दृष्टान्तमाह--- लद्धो वि गरुयविहवो. सुपत्तखेत्तेसु जेहिं न निहितो ते महराउरिवणि ओब, भायणं टुंति सोअस्स ।।५९॥
व्याख्या--लब्धोऽपि महान विभाः सुपामाप्येव क्षेत्राणि ! 'त्र'शब्दोऽत्रातिवृद्धिहेतुत्वात् । यतोRI "व्याजाच द्विगुणं वित्त, व्यवमायाच्चतुर्गुणं। कृषेः शतगुणं प्रोक्तं. पात्रऽनन्तगुणं मतम् ।। १॥" इति, . .
तेषु येन निक्षिप्त, ते मथुरापुरीवणिगिव शोकस्य भाजनं भवन्तीत्यक्षराधः । तत्कथा चेयम् , यथा-..
मथुरायां धनसार श्रेष्ठी, तस्य द्वाविंशतिद्रव्यकोट्यः प्रत्येकं निधि-वृद्धि-देशान्तरेषु, एवं पट्पष्टिकोटीशोऽपि न तिलतुषमात्रमपि धर्मे ददाति । भिक्षाचरं वीक्ष्य ज्वरश्चटति । अन्यमपि दातारं दृष्ट्वा प्रज्वलति । किं बहुना ?, गृहमानुपाण्यपि तस्मिन् बहिर्गत एवं भुञ्जते । एवं च सति तस्य तथा कृपणत्वप्रसिद्धिर्यथा नाभुक्तः कोऽपि नामापि गृहातीति । अन्यदा निधिसत्कं द्रव्यमङ्गारीभृतं, जलमार्गस्थं त्रुडितं, स्थलमार्गस्थं चौरंगहितं । ततः शेषमुरितं दशलक्षरूपमादाय समुद्रे प्रविष्टः । तत्र प्रवहणं भय । ततो जलधिना | कापि तीरे एकस्यामटव्यां प्रक्षिप्तश्चिन्तितवान्-हा!! मया न स्वयं किश्चिद्भुक्तं नापि सुपात्रे दत्त, नतो दानभोगरहितस्य मम नाश एव जातस्तृतीयः प्रकारः, पुनदेवेन दर्शितः कुटुम्बनिरहोऽपीत्यादि । तावसत्र तत्कालोत्पन्नकेवलं देवासुरसेवितं महर्षिमेकमालोक्य हृष्टस्तं नत्वा देशनां श्रुत्वा स्वद्रव्यगमनकारणमपृच्छत् । केवली पाह-धातकीखण्डे भरतक्षेत्रे द्वौ भ्रातरौ, ज्येष्ठः सरलो गम्भीरो दाता दीनादीनामनवरते ददाति । लघुः क्षुद्रः, ततः प्रद्वेषमत्यन्तं वहति तस्मिन् , वारितोऽपि ज्येष्ठो ददात्येव दान, ततो लघुर्विभक्तो जातः। ततः क्षीणसर्वधनोऽजनि । ज्येष्ठस्य तु निजपुण्यस्तथैव बर्द्धते विभवः । ततो लघुना मत्सरेण राजाऽग्रे अलीकं पैशून्यं कृत्वा द्रव्यं ग्राहितः
PE