________________
षष्ठे भवे पूर्वविदेहेषु राज्यं भुक्वा नीरागसंयमेन मुक्तिः । इति पूर्वभवदानप्रभावं ज्ञात्वाऽनेक सत्रागाराणि कारयित्वा जिनचैत्यानि स्था| पयित्वा सप्तक्षेत्री स्ववित्तेनापूर्य प्रान्ते प्रवज्य पञ्चमस्वर्गं गतौ । पूर्वोक्तक्रमेण महाविदेहे मोक्षं यास्यतः ॥ ५२ ॥ इति पात्रदाने अमरसेन- वगरसेनचरितं समानम् ॥
अथ येभ्यो दीयमानं दानं विशेषतो बहुफलं भवेत् तान् दर्शयन्नाह -
पहसंतगिलाणेसुं, आगमगाहीसु तह य कयलोए । उत्तरपारणगम्मिय, दिनं सुबहुप्फलं होई ॥ ५३ ॥ व्याख्या -- पथभ्रान्तेभ्यो ग्लानेभ्य आगमग्राहिम्यः तथा [च] कृतलोचेभ्यः साध्वादिभ्यस्तथा उत्तरपारणके च विधिना दत्तमशनादि सुष्ठु बहुफलं भवति । यतः - पथश्रान्तस्य पर्यटनाद्यक्षमस्यानुकम्पा मासकल्पविहारे स्थिरीकरणाद्याः, ग्लानस्यार्त्तध्याननिराकरणाद्याः आगमग्राहिणां त्विष्टभक्तादिसम्पादनेन क्षयरोगाद्युत्पत्तिनिराकरणाद्याः, कृतलोचे स्थिरीकरणाद्याः, उत्तरपारण के चोपष्टम्भादयो गुणाः स्युरिति गाथार्थः ॥ ५३ ॥ अथ दातृणामेवोत्साहनायाह
बज्झेण अणिश्चेण य, धणेण जइ होइ पत्तनिहिएणं । निबंऽतरंगरुवो, धम्मो ता किं न पजतं ? ॥ ५४ ॥
व्याख्या -- तावद्राह्येनानित्येन च यदि धनेन पात्रनिक्षिप्तेन सता नित्यो मोक्षान्तावस्थायित्वाद्, अन्तरङ्गरूपश्चौराद्यहार्यत्वाम्मोद्भाषितो भवति, तहिं किं न परिपूर्ण ?, अपि तु सर्वमपीति गाथार्थः ॥ ५४ ॥
उक्ता दानदायकानां गुणाः, अथ तददायकानां दोषानाह