________________
स्वं कृतार्थ मन्यमानः स्वकीयाहारेण प्रतिलाभितवान् ततस्तयोस्तथा पुण्यनैपुण्यं दृष्ट्वा हृष्टः श्रेष्ठटी सुतरां तयोवत्सिल्यं करोति । इत कलिङ्गदेशाधिपः सूरसेननृपो गोत्रिभिर्गृहीतराज्यः कुरुदेशे गजपुरनृपसेवां कुर्वन् ग्रामचतुष्कं प्राप्य तत्र मुकराभिधाने ग्रामेऽस्थात् । तस्य विजयादेवीकुक्षौ तौ द्वावपि मृत्वा पुत्रौ जातौ अमरसेन - वयरसेनाख्यौ, सम्प्राप्तयौवनौ कलाकुशलौ सकलजनप्रियो गुणाकरौ जातौ तौ च तादृशौ दृष्ट्वा सपत्नी माता मायाविनी राजानमुवाच एतौ तव पुत्रौ दुःशीलौ रामान्धो, यदा प्रभृति त्वं प्रस्थितस्तदाभ्यां निजं शीलं संरक्षितं, अथ यत्त्वत्कुलोचितं तत्कुरु । इत्याकर्ण्य राजाऽज्ञात परमाथ ग्राममा मुख्यमाकार्य तन्मस्तकानयनायादिदेश । स च तत्र गत्वा पुत्रयोस्तत्स्वरूपमवदत् । ताभ्यामुक्तं पितुरादेशः प्रमाणमिति गृहाण मस्तके | तेनोक्तं- राज्ञा वेदविमृश्योच्यते, परं कथमहमीदृशं करोमि 2, इति प्रसद्य युवां देशान्तरं वातः, चित्रकरेण मस्तके कारयित्वा राज्ञो दर्शयिष्यामि । इति श्रुत्वा तो देशान्तरं प्रस्थितौ । मातङ्गेन तथा कृत्वा सन्ध्यायां मस्तकें दर्शिते राज्ञः, वत् श्रुत्वा प्रमुदिता चिमाता । ततस्तौ स्वबुद्ध्या विमातृप्रपञ्चं ज्ञात्वा देशान्तराश्चयावलोकने स्वोपकारिणीं मन्यमानौ कस्याश्चिदव्यां सन्ध्यासमये गतौ । रात्रौ वृक्षाघोऽमरसेनः सुप्तः, वयरसेनस्तु प्रहरके स्थितः । अत्रान्तरे वृक्षोपरिस्थया कीरपल्या भूमिस्थस्य स्वमतु: कीरस्य प्रोक्तं- खामिन् ! एतौ महापुरुषौ समायातौ स्तः कोऽप्येतयोरुपकारः क्रियते । कीरेणोक्तं-पक्षिभिः कथमुपक्रियते ? | तयोक्तं-स्वामिन् । सुकूटशैले विद्याधरेण स्वविद्या परीक्षार्थं विद्याऽभिमन्त्रितौ द्वावाम्रो रोषितौ स्तः, वयोः फलमेतत् एकस्य लघुफलस्य फलेन भुक्तेन प्रतिप्रातः पञ्चशती द्रम्माणां मुखात्पतति द्वितीयस्य वृद्धफलस्य फलेन युक्तेन सप्तमदिने राज्यं भवति, तयोः फले समानीयानयोर्दीयते । इति विचार्य तेन कीरमिथुनेन तत्कालं ते फले समानीय वयरसेनोत्सङ्गे मुक्ते । तेन खस्य राज्यमनिच्छता प्रभाते