________________
आरोग्गं सोहग्गं, आणिस्तरियं मणिच्छिओ विहवो । सुरलोयसंपया वि य, सुपत्तदाणाऽवरफलाई ॥५०॥
व्याख्या-आरोग्यं सौभाग्यं आजैश्वर्य मनीषितो विभयो-धनं देवलोकसम्पदपि च, एतानि सुपात्रदानस्थापराणि-मोक्षापेक्षयाशान्तरालवतीनि फलानि, परं तु फलं मोक्षमेवेति गाथार्थः ।। ५० ॥ तदेव दानस्योत्कृष्टं फलमुपदर्शयन्नाह
दाउं सुपत्तदाणं, तम्मि भवे चेव निव्वुआ के वि । अन्ने तइयभवेणं, भोत्तूण नरामरसुहाई ॥ ५१ ॥
___ व्याख्या-केचित्तथाविधाल्पकर्माणः सुपात्रदानं दत्वा तस्मिन्नेव भवे निवत्ता:-सिद्धाः, अन्ये च नरामरसुखानि भुक्त्वा मा तृतीयभवे सिद्धा इत्यर्थः ॥ ५१ ॥ दानदातुर्गुणानेव सदृष्टान्तमाह
जायइ सुपत्तदाणं, भोगाणं कारणं सिवफलं च। जह दुण्ह भाउआणं, सुयाण निवसूरसेणस्स ॥ ५२ ॥ | ___ व्याख्या-सुपात्रदानं भोगानां कारण तथा शिवफलं च जायते । यथा सूरसेननृपस्य सुतयोयो बोरित्यक्षरार्थः । भावार्थस्तु कथानकेनोच्यते, तद्यथा-इह भरते ऋषभपुरे अभयङ्करः श्रेष्ठी, कुशलमती भार्या, तौ च जिनधर्मरतौ जीवाजीवादितस्वछौ, तयोगृहे एको गोपालोऽपरः कर्मकरः, तौ श्रेष्ठिसंसर्गेण जिनपूजन-मुनिदानादिधर्मभावितौ स्तः । अन्यदा चातुर्मासिके श्रेष्ठिना सम जिनभवने पूजानिमित्तं गतौ चिन्तयतः-धन्योऽयं श्रेष्ठी, यो नित्यं जिनान् प्रभूतपित्तव्ययेन पूजयति । ततोऽद्याऽऽवा सकीयेनैत्र का वित्तेन जिनार्चादि कृत्वा निजं जन्म फलस्कुर्व इति चिन्तितवन्तौ, ततो गोपालः स्वीयपञ्चकपईकुसुमैर्जिनपूजां चकार, कर्मकरः
श्रेष्ठिना समं सुगुरुसमीपे प्रत्याख्यातोपवासो गृहं गत्वा आत्मयोग्यं परिवेष्य तदैव दैवयोगाद्ग्लानाद्यर्थ तत्रैवागतान्मुनीन्परमश्रद्धया